SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६८ सूत्रकृताङ्गसूत्रे नाम केचित् पुरुषाः कलमममूरतिलमुद्गमाषनिष्पावकुलत्यालिसन्दकपरिमन्यादिकेषु अत्यन्तं क्रूराः मिथ्यादण्डं प्रयुजते एवमेव तथा प्रकाराः पुरुषजाता तित्तिर वर्त कलावककपोतकपिञ्जलमृगमहिषवराहग्राहगोधाकूर्मसरिसृपादिकेषु अत्यन्त क्रूराः मिथ्यादण्डं प्रयुञ्जम्ति याऽपि च तेषां बाह्या परिषद् भवति तद्यथा-दासो वा प्रेष्यो वा भृतको चा भागिको वा कर्मकरो वा भोगपुरुषो वा तेषाञ्च च खलु अन्यतर. स्मिन् यथालघुकेऽप्यपराधे स्वयमेव गुरुकं दण्डं निवर्तयन्ति तद्यथा-इमं दण्डयत, इमं मुण्ड यत, इमं तर्जयत, इंमं ताडयत, इमं पृष्ठवन्धनं कुरुत, निगडबन्धनं कुरुत, इमं हाडी बन्धनं कुरुत, इमं चारबन्धनं कुरुत, इमें निगडयुगलसंकोचित मोटितं कुरुत, इमं हस्तच्छिन्नकं कुरुत, इमं पादच्छिन्नकं कुरुत, इमं कर्णच्छिन्न के कुरुत, इमं नासिकौष्ठशीर्ष मुखच्छिन्नकं कुरुत, इमं वेदकच्छिन्नकमच्छिन्नकं, पक्षस्फोटितं कुरुत, इमं नयनोत्पाटितं कुरुत, इमं दशनोत्पाटिनं वृषणोत्पाटितं जिबोत्पाटितम् अवलम्बितं कुरुत घर्पितं कुरुत घोलितं कुरुत, शूलार्पितं कुरुत, शूलाभिन्नकं कुरुत, क्षारवर्तिनं कुरुत, वध्यवर्तिनं कुरुत, सिंहपुच्छितकं कुरुत, वृषभपुच्छितकं कुरुत, दावाग्निदग्धाङ्गं कुरुत, काकालीमांसखादिताङ्गं भक्तपान. निरुद्धकमिमं यावज्जीवनं वधबन्धनं कुरुत, इममन्यतरेणाऽशुभेन कुमारेण मारयत । याऽपि च तस्य आभ्यन्तरिकी परिषद् भवति तद्यथा-माता वा पिता वा भ्राता वा भगिनी वा भार्या वा पुत्रा वा दुहितरो वा स्नुषा वा तेषामपि च खलु अन्यतरस्मिन् यथा लघुकेऽप्यपराधे स्वयमेव गुरुकं दण्डं निर्वतयन्ति शीतोदकविकटे उत्क्षेप्तारो भवन्ति यथामित्रदोषप्रत्ययिके यावद् अहिताः पर. स्मिन् लोके ते दुःख्यन्ति शोचन्ति जूरयन्ति तिप्यन्ति पीड्यन्ते परितप्यन्ति, ते दुःखन शोचनजूरणते पनपिट्टनपरितापनवधबन्धनपरिक्लेशेभ्योऽप्रतिविरता भवन्ति । एवमेव ते स्त्रीकामेषु मूच्छिताः गृद्धाः प्रथिताः अध्युपपन्नाः यावद् वर्षाणि चतुःपञ्च षड्दश वा अल्पतरं वा भूयस्तरं वा कालं भुक्तवा भोग्यभोगान् भविस्य वैरायतनानि सश्चित्य बहूनि पापानि कर्माणि उत्सन्नानि सम्भारकृतेन कर्मणा तद्यथा नाम अयोगोलको वा शैलगोलकोवा उदके वा प्रक्षिप्यमाणः उदकतलमतिवयं अधोधरणितलपतिष्ठानो भवति, एवमेव तथाप्रकारः पुरुषजातः पर्यायबहुलः धुतबहुलः पङ्कबहुल: वैरबहुल: अप्रत्ययबहुल: दम्भवहुलः निपति बहलः सातिबहलः अयशो बहुल: उत्सनत्रसपाणघाती कालमासे कालं कृत्वा धरणितलमतिवयं अधो नरकतलपतिष्ठानो भवति ।।सू०२०=३५।। श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy