________________
काशिका टीका तस्कंध २ उ. १. १ षष्ठ' पात्रैषणाध्ययननिरूपणम्
Ge
अथापरा द्वितीया प्रतिमा - स भिक्षु भिक्षुकी वा प्रेक्ष्य पात्रं याचेत, तद्यथा - गृहपतिवा यावत् कर्मक वा स पूर्वमेव आलाचयेद् - आयुष्मन् ! इति वा, भगिनि । इति वा, दास्यसि मे इतः अन्यतरत् पात्रम् तद्यथा - अलाबूपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा, तथाप्रकारं पात्र स्वयं वा याचेत यावत् प्रतिगृह्णीयात्, द्वितीया प्रतिमा २, अथापरा तृतीया प्रतिमा - स भिक्षु भिक्षुकी वा स यत् पुनः पात्र जानीयात् स्त्राङ्गिकं वा वैजयन्तिकं वा तथाप्रकारं पात्रं स्वयं वा याचेत यावत् प्रतिगृह्णीयात् तृतीया प्रतिमा ३ अथापरा चतुर्थी प्रतिमा-स भिक्षु भिक्षुकी वा उज्झितधार्मिकं पात्रं याचेत यावद् अन्ये बहवः श्रमणब्रह्मण अतिथिकृपणaatuarः यावत् नावकाङ्क्षन्ति तथाप्रकारं पात्रं याचेत यावत् प्रतिगृह्णीयात्, चतुर्थी प्रतिमा ४, इत्येतासां चतसृणां प्रतिमानाम् अन्यतरां प्रतिमाम् यथा पिण्डैषणायाम, तं खलु एताः एषणाः एषमाणं दृष्ट्वा परो वदेत्- आयुष्मन् ! श्रमण ! एष्यसि त्वम् मासेन वा यथा वस्त्रैषणायाम्, अथ खलु परो नेता वदेत् - आयुष्मन् ! इति वा भगिनि इति वा, आहर इदं पात्रम् तैलेन वा घृतेन वा नवनीतेन वा वसया वा अभ्यज्य वा तथैव स्नानादि तथैव शीतो. Cafe कन्दाथैव तं खलु परो नेता वदेत्-आयुष्मन् ! श्रमण ! मुहूर्तकं यावत् आस्व तावद्' वयम् अशनं वा पानं वा खादिमं वा स्वादिमं वा उपकुर्मः, उपस्कुर्मः ततः ते वयम् आयुष्मन् ! श्रमण ! सपानं सभोजनं पतद्ग्रहं दास्यामः, तुच्छके पतद्ग्रहे दत्ते श्रमणस्य नो सुष्ठु साधु भवति, स पूर्वमेव आलोचयेत्, आयुष्यन् ! भगिनि ! नो खलु मे कल्पते आधाकर्मिकम् अशनं वा पानं वा खादिमं वा स्वादिमं वा भोक्तुं वा पातुं वा, मा उपकुरु मा उपस्कुरु, अभिकाङ्क्षसि मे दातुम्, एवमेव देहि, तस्य एवं वदतः परः अशनं वा पानं वा खादिमं वा स्वादिमं वा उपकृत्य उपस्कृत्य सपानं सभोजनं पतग्रहं दद्यात् तथाप्रकारं पतद्ग्रहम् अप्रा सुकम् यावद् नो प्रतिगृहायात् स्यात् स परः उपनीय पतद् ग्रहम् निस्सृजेत् स पूर्वमेव आलोचयेत् - आयुष्मन् ! भगिनि ! तवचैव खलु स्वाङ्गिकं पतद्ग्रहकम् अन्तोऽन्तेन प्रतिलेखिष्यामि, केवलीन्नूयाद् - आदानमेतत्, अन्तः पतद्ग्रहके प्राणान् वा बीजानि वा हरितानि वा, अथ भिक्षूणां पूर्वोपदिष्टं यत् पूर्वमेव तद्ग्रहकम् अन्तोऽन्तेन प्रतिलिखेत्, साण्डानि सर्वे आलापकाः भणितव्याः यथा वस्त्रैषणायाम् नानात्वम् तैलेन वा घृतेन वा नवनीतेन वा सया वा स्नानादि यावत् अन्यतरस्मिन् वा तथाप्रकारे स्थण्डिले प्रतिलिख्य प्रतिलिख्य प्रमृज्य प्रमृज्य ततः संयतमेव आमृज्यात्, एवं खलु तस्य भिक्षुकस्य भिक्षुक्याश्च सामग्र्यम्, यत् सर्वाः समितः सहितः सदा यतेत इति ब्रवीमि ॥ सू० १ ॥
पात्रैषणा नाम का छट्टा अध्ययन आरम्भ किया जाता है
प्रथम अध्ययन में पिण्डविधिका और द्वितीय अध्ययन में पिण्ड से सम्बद्ध वसति विधिका एवं तृतीय अध्ययन में वसति का अन्वेषणार्थ ईर्या समितिका પાત્રૈષણા નામના છઠ્ઠા અધ્યયનના આરંભ
પડેલા અધ્યયનમાં પિડવિધિનુ' અને ખીજા અધ્યયનમાં પિડથી સ`ખદ્ધ વસતિ
શ્રી આચારાંગ સૂત્ર : ૪