SearchBrowseAboutContactDonate
Page Preview
Page 1057
Loading...
Download File
Download File
Page Text
________________ १०४६ आचारांगसूत्रे शातयन्ति परिशात्य यथासूक्ष्म न् पुद्गलान् पर्याददते, पर्यादाय ऊर्ध्वम् उत्पतन्ति, ऊर्ध्वम् उत्पत्य तया उत्कृष्टया शीघ्रया चपलया त्वरितया दिव्यया देवगत्या अधः अवपतन्तः तिर्यग् असंख्येयान द्वीपसमुद्रान् व्यतिक्रामन्तः व्यतिक्रामन्तः यत्रैर जम्बूद्वीपो द्वीपः तत्रैव उपागच्छन्ति, उपआगत्य यत्रैव उत्तरक्षत्रियकुण्डपुरसन्निवेशः तत्रैव उपागच्छन्ति यत्रैव उत्तरक्षत्रियकुण्डपुरसन्निवेशस्य उत्तरपौरस्त्यो दिग्मागः तत्रैव झटिति वेगेन अवपतिताः, ततः शक्रो देवेन्द्रः देवराजः शनैः शनैर्यानविमानं प्रस्थापयति, शनैः शनैः यानविमानं प्रस्थाप्य शनैः शनैः यानविमानतः प्रत्यवतरति, प्रत्यवतीय शनैः शनैः एकान्तमपकामति, एकान्तमपक्रम्य महता वैक्रियेण समुद्घातेन समवहन्यते, समवहत्य एकं महत् नानामणिकनकरत्नभक्तिचित्रं शुभं चारुकान्तरूपं देवच्छन्दकं विकुरुते, तस्य देवच्छन्दकस्य बहुमध्यदेशभागे एकं महत सपादपीठं नानामणि कनकरत्नभक्तिचित्रं शुभं चारुकान्तरूपं सिंहासनं विकुरुते, विकृत्य यत्रैव श्रमणो भगवान् महावीरः तत्रैव उपागच्छति उपागत्य श्रमणं भगवन्तं महावीरं त्रिकला आदक्षिणं प्रदक्षिणम् करोति, कृत्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा श्रमणं भगवन्तं महावीरं गृहीत्वा यत्रैव देव न्छन्दकस्तत्रैवोपागच्छति, शनैः शनैः पौरस्त्याभिमुख सिंहासने निषादयति शनैः शनैः निषाघ शतपाकसहस्रपाकैः तैलैः अभ्यञ्जयति गन्धकाषायिकैः उल्लोलयति शुद्धोदकेन मज्जयति, मज्जयित्वा यस्य मूल्यं शतसहस्रेण त्रिपटोलतिक्त केन साधिकेन शीतेन गोशीर्षकरक्तचन्दनेन अनुलिम्पति, अनुलिप्य ईषत् निश्वासातवाह्यम् वरनगरपट्टनोद्गतम् कुशल नरप्रशंसितम् अश्वलालापेलवम् (श्वेतम् ) छेकाचार्यकनकखचितान्तकर्म हंसलक्षणं पट्टयुगलम् परिधाययति, परिधाप्य हारमर्द्धहार मुरस्थं ने पथ्यम् एकावलिम् प्रालम्बसूत्रम् पट्टमुकुटरत्नमाला आवन्धापयति आबन्धाप्य ग्रन्थिमवेष्टिमपूरिमसंघाति मेन माल्येन कल्पवृक्षमिव समलंकरोति समलंकृत्य द्वितीयमपि महता वैक्रियसमुद्घातेन समवहन्यते, समवहत्य एक महती चन्द्रप्रभां शिषिकां सहस्रवाह. नीयां विकुरुते, तद्यथा-ईहामृगवृषभतुरगनरमकरविहगवानर कुञ्जररुरुशरभ चमर शार्दूलसिंह वनलता भक्तिचित्रलताविद्याधरमिथुनयुगलयंत्रयोग्ययुक्ताम् अर्चिसहस्रमालनीयां मुनिरूपितां मिसीमिसन्तरूपकसहस्रकलिताम् ईषद् भिसमानां भिमिसमानाम् चक्षुलोचनलोकनीयाम् मुक्ताफलप्मुक्ताजालान्तरोपितां तपनीय प्रघरम्बूसकप्रलम्चमानमुकादामां-हारार्द्धहारभूषणसमन्विताम् अधिकप्रेक्षणीयाम् पद्मलताभक्तिचित्राम् अशोकवन भक्तिचित्राम् कुन्दलता भक्तिचित्राम् विरचितां शुभाम् चारुकान्तरूपाम् नानामणि पश्चवर्ण घंटापताकाप्रतिमण्डिताग्रशिखराम् प्रासादीयां दर्शनीयाम् सुरूपाम्-शिविका उपनीता जिनवरस्य जरामरण विप्रमुक्तस्य । अवस कमाल्यदामा जलस्थल नदिव्यकुसुमैः ॥१॥ शिबिकाया मध्यभागे दिव्यं वररत्नरूप्रतिबिम्बितम् । सिंहासनं महाहम् सपादपीठं जिनवरस्य ॥२।। अलंकृतमालामुकुटभासु शरीरो वराभरणधारी। परिहित क्षौमिकवस्त्रः, यस्य च मूल्यं शतसहस्रम् ॥३। पष्ठेन तु भक्तेन अध्यवसानेन सुन्दरेण जिनः । लेश्याभिः विशुद्धान्तः आरोहति उत्तमां शिविकाम् श्री मायाग सूत्र :४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy