________________
-कल्प-स्तोत्रादि-सन्दोह ]
-[३५] _ [१०] श्रीशवेश्वरजिनस्तवः ।*
( शालिनीछन्दः ) गौडीग्रामे स्तम्भने चारुतीर्थे
जीरापल्या पत्तने लोदवाख्ये । वाणारस्यां चापि विख्यातकीर्ति
श्रीपार्श्वशं नौमि शङ्खश्वरस्थम् ॥१॥ इष्टार्थानां स्पर्शने पारिजातं
वामादेव्या नन्दनं देववन्धम् । स्वर्गे भूमौ नागलोके प्रसिद्धम् ।
श्रीपार्वेशं नौमि शङ्खश्वरस्थम् ॥२॥ भित्वाऽभेद्यं कर्मजालं विशालं
माप्यानन्तं ज्ञानरत्नं चिरन्तम् । लब्धामन्दानन्दनिर्वाणसोख्यं
श्रीपार्वेशं नौमि शङ्केश्वरस्थम् ॥३॥ विश्वाधीशं विश्वलोके पवित्रं
___ पापगम्यं मोक्षलक्ष्मीकलत्रम् । अम्भोजासं सर्वदा सुप्रसन्न
श्रीपार्श्वशं नौमि शद्धेश्वरस्थम् ॥४॥ * वि.सं. १८६० मां ज्ञानसागर प्रेसमा छायेर “श्रीरत्नसा" પ્રથમ ભાગ, પૃ. ૨૧૦ માંથી લીધું.