________________
२३ श्रीपार्श्वजिनस्तुतयः
अथ श्रीपार्श्वनाथाय प्रार्थना
मालामालानबाहुर्दधददधदरं यामुदारा मुदाऽऽरात् लीनालीनामिहाली मधुरमधुरसां सूचितोमाचितो मा । पातात् पातात् स पार्श्वः रुचिररुचिरदो देवराजीवराजीपत्राऽऽपचा यदीया तनुरतनुरवो नन्दको नोदको नो ॥ ८९ ॥ - स्रग्०
टीका
माळामिति । 'मालां' खजम् । 'आलानबाहुः ' आलानाविव बाहू यस्यासौ । ' दधत् ' धारयत् । ' अदधत् ' पीतवती । ' अरं ' शीघ्रम् | 'याम् ' । ' उदारां ' प्रचुराम् ।
,
"
1
मुदा हर्षेण | 'आरात् ' अन्तिके । ' लीना ' श्लिष्टा । ' अलीनां ' भृङ्गाणाम् । ' इह ' अत्र | ' आली ' श्रेणिः । ' मधुरमधुरसां ' मधुरो मधुरसो - मकरन्दद्रव्यो यत्र ताम् । 'सूचितोमाचितः ' सूचिता- सुष्ठु उचिता या उमा - कीर्तिः तया चितः - संयुक्तः । माशब्दो मामित्यस्यार्थे । ' पातात् ' भ्रंशात् । ' पातात् ' रक्षतु । 'सः' । ' पार्श्वः ' जिनः । ' रुचिररुचिरदः ' रुचिररुचयःकान्तद्युतयो रदा दन्ता यस्य सः । ' देवराजीवराजीपत्रा' देवानां सम्बन्धिनी या राजीवराजी - सरोजपङ्किः सैव पत्र - वाहनं यस्याः सा । 'आपत्त्रा ' आपदः सकाशात् त्रायते या सा । ' यदीया ' यस्य सम्बन्धिनी । ' तनु: ' मूर्तिः । ' अतनुरव: ' अनल्पध्वनिः । ' नन्दकः ' आनन्दयिता । 'नोदको नो ' क्षेपको न भवति । यां अलीनामाली लीना अदधत् तां मालां दवत् स पातात् यदीया तनुरापचा इति सम्बन्धः ॥ ८९ ॥
6
,
अवचूरिः
मा-मां पातात् - नरकादिपतनात् पाताद्- रक्षतात् । स पार्श्वः - त्रयोविंशो जिनः । किंविशिष्टः ? । मालां-स्रजं दधत् - दधानः । यां मालामलीनां भ्रमराणामाली - पटली उदारा-प्रचुरा मुदा हर्षेण आरात्अन्तिके अरम् - अत्यर्थे लीना - श्लिष्टा सती अदधत् - पीतवती । किंभूताम् ? । मधुरो मधुः- मकरन्दरसो यस्याः सा ताम् । पार्श्वः किंभूतः ? | आलानवद् बाहू यस्य सः । सुष्ठु उचिता या उमा - कीर्तिस्तया चितो - व्याप्तः । रुचिररुचयो - रम्यकान्तयो रदा दन्ता यस्य सः । तथा यस्येयं यदीया तनुःशरीरं आपत्त्रा - विपदो रक्षिका । किंभूता ? । देवानां संबन्धिनी या राजीवराजी - स्वर्णाम्बुजश्रेणी सैव पत्र - वाहनं यस्याः सा । पार्श्वः किंभूतः ? । अतनुर्योजनप्रमाणभूमौ श्रूयमाणत्वात् प्रौढो रवो-देशनाध्वनिर्यस्य सः । नन्दकः - समृद्धिजनकः नन्दयिता वा । नोदको नो-प्रेरको न भवतीत्यर्थः ॥ ८९ ॥