________________
निस्तुतयः ]
जिनागमाय नमः -
स्तुतिचतुर्विंशतिका
भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत्परमतमोहमानमतनूनमलं घनमघवते हितम् । जिनपतिमतमपारमर्त्यामरनिर्वृतिशर्मकारणं
परमतमोहमानमत नूनमलङ्घनमघवहितम् ॥ ७१ ॥
- द्विपदी
૧
टीका
भीमेति । 'भीममहाभवान्धिभवभीतिविभेदि भीमे महाभवान्धौ भवन्ति भीतयो यास्तासां विभेदि - भेदनशीलम् । ' परास्तविस्फुरत्परमतमोहमानं' परास्तानि - क्षिप्तानि विस्फुरन्ति परमतानि मोहश्च मानश्च येन तम्, अथवा मोहात् - अज्ञानात् मानो मोहमानो - मिथ्याभिमानः परंप्रकृष्टं विस्फुरत् यथा भवत्येवं अस्तः परमतानां मोहमानो येन तम् । 'अतनूनं ' तनु च ऊनं च यन्न भवति । ‘ अलं ' अत्यर्थम् । ' घनं ' निविडं प्रमेयगाढम् । ' अघवते पापान्विताय । ‘हितं ' श्रेयस्कारि । ‘जिनपतिमतं ' सर्वज्ञप्रवचनम् । 'अपारमर्त्यामरनिर्वृतिशर्मकारणं' अपाराणि-अपर्यन्तानि यानि मर्त्यानां अमराणां निर्वृतेश्च - निर्वाणस्य सम्बन्धीनि शर्माणि - सुखानि तेषां कारणं - हेतुः । 'परमतमोहं' परमं तमो हन्ति यत् तत्, अथवा परमतमा - अतिशयेन परमा कहा:- तर्का यत्र तत् । ' आनमत ' प्रणमत । ' नूनं' निश्चयेन । 'अलङ्घनमघवता ' नास्ति लङ्घनं-अभिभवो यस्य तेन मघवता - महेन्द्रेण, सामर्थ्यादच्युतस्वर्गनाथेन । ' ईहितं' अभिलषितम् । जिनपतिमतं आनमतेति सम्बन्धः ॥ ७१ ॥
अवचूरिः
भीषणमहासंसारसमुद्रोत्पन्नभयविदारकम् । परास्ताः - परिक्षिप्ता विस्फुरन्तः परमतमोहमाना थ्रेन । यद्वा मोहाद्-अज्ञानान्मानो-मिथ्याभिनिवेशः परमतानां मोहमानौ वा । तनु-लुच्छमूनम् - अपूर्ण च न । अलम् - अत्यर्थे घनं निबिडं प्रमेयगाढम् । अघवते - पापिने अहितं न श्रेयस्कारि । अपाराण्यपर्यन्तानि मर्त्यानाममराणां निर्वाणस्य शर्माणि तेषां कारणम् । परमं तमो हन्ति । यद्वा परमतमा ऊहा यस्मिन् । आननत - प्रणमत । नूनं निश्चितम् । न लङ्घनम् - अभिभवो यस्य स चासौ मघवा च तेन सामर्थ्यादच्युतनाथेन ईहितम् - अभिलषितम् ॥ ७१ ॥
अन्वयः
भीम - महत्-भव - अब्धि-भव-भीति-विभेदि, परास्त - विस्फुरत्-पर- मत - मोह - मानं, अतनु- ऊनं, अलं, घनं, अघवते हितं, अपार - मर्त्य - अमर - निर्वृति- शर्मन - कारणं, परम-तमस्इं ( अथवा परमतम-ऊहं ) अ - लङ्घन - मघवता ई हितं जिन - पति-मलं नूनं आनमत |