________________
१६ श्रीशान्तिजिनस्तुतयः अथ श्रीशान्तिनाथस्य स्तुतिः
राजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा
द्रेऽकोप ! द्रुतजातरूपविभया तन्वोऽऽर्य ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्रीशान्तिनाथास्मरोद्रेकोपद्रुत ! जातरूप ! विभयातन्वार्यधी ! रक्ष माम् ॥ ६१ ॥
-शार्दूल.
टीका
राजन्त्या इति । 'राजन्त्या' भ्राजमानया । ' नवपद्मरागरुचिरैः' नवस्य पद्मस्य यो रागो-रक्तता तद्वत रुचिरैः-चारुभिः पादैः-अदिभिः । 'जिताष्टापदादे । जित:-तुलितोऽष्टापदादिः-कनकशैलो येन तस्यामन्त्रणम् । ' अकोप !' क्रोधरहित ! । 'द्रुतजातरूपविभया' द्रुतंविलीनं यज्जातरूपं-स्वर्ण तद्वत् विभा यस्याः तया । 'तन्वा' मूयो । 'अर्य!' स्वामिन् !। 'धीर !" धैर्ययुक्त ! । 'क्षमाम् । शान्तिम् । 'बिभ्रत्या' दधानया । ' अमरसेव्यया' सुरैः सेवनीयया। 'जिनपते ! जिनेन्द्र !। 'श्रीशान्तिनाथ !' । 'अस्मरोद्रेकोपद्रुत !' न स्मरोद्रेकेण-मदनावेगेन उपद्रुतः-खलीकृतो यस्तस्यामन्त्रणम् । 'जातरूप !' प्रादुर्भूतसौन्दर्य ।। 'विभय !' विगतत्रास !। 'अतन्वार्यधीः' अतनुः-अकृशः आर्या-प्रशस्या धी:-बुद्धिर्यस्य तस्यामन्त्रणम् । 'रक्ष मां' त्रायस्व माम् । अत्र भगवत्तनोरष्टापदाद्रिणा श्लेषः, सोऽपि नवपद्मरागरुचिरैः नवारुणमणिरुचिरैः पादैर्मूलप्रदेशे राजति(ते), द्रुतजातरूपविभः-प्रसृतसुवर्णद्युतिः क्षमा-भुवं बिभर्ति अमरसेव्यश्च । तदेवं तन्वा जिताष्टापदाढ़े ! श्रीशान्तिनाथ ! रक्ष मामिति योगः ॥ ६१ ॥
अवचूरिः - हे श्रीशान्तिदेव ! मां रक्ष-पालय । जितोऽष्टापदाद्रिः-मेरुर्येन तस्य संबोधनम् । कया । तन्वाशरीरेण । किंभूतया ?। पादैः-चरणै राजन्त्या-शोभमानया। किंभूतैः । नवपद्मरागो-नूतनकमलरक्तता तद्वद् रुचिरैः-चारुभिः । हे अकोप !-अक्रोध!। पुनस्तन्वा किंभूतया । द्रुतं-उत्तप्तं यज्जातरूपं-तपनीयं तद्वद् विभा-कान्तिर्यस्यास्तया। हे अर्य!-स्वामिन् !। हे धीर!-परिषहाद्यक्षोभ्य !। तन्वा किं कुर्वत्या?। क्षमां-क्षान्तिं बिभ्रत्या-धारयन्त्या। अमरसेव्यया-देवसेवनीयया। हे अस्मरोद्रेकोपद्रुत!-न कामवेगपीडित ! । जातं-प्रादुर्भूतं विश्वातिशायि रूपं-सौन्दर्य यस्य। हे विभय !-गतभय ।। अतनुः-अकृशा
१ तन्वाऽर्य वा । २ प्रथमा विभफिरथवा ।