SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ एवं मूढो मुनिर्न भवेज्ज्ञानभाक् (22)।। प्रच्छादनं वेषं रूपं लिङ्गं च निश्चयेन विभावयेत्, किमर्थं वा गायति व्याधस्तूष्णीका तु भवन्ति पक्षिणः? गायतोऽपि व्याधस्य हननाभिप्रायं वेषाच्च लिङ्गाच्चानुमान्ति विहगा इति भावः (23)।। लौकिककार्यनिर्वृत्तिप्रयोजके कार्यकारणे आदेये, ते एव मोक्षनिर्वृत्तिप्रयोजके विशेषतो विज्ञेये (24)।। परिवारेण च वेषेण च यद् भावितं तद् विभावयेन्न च ताभ्यां वञ्च्येत, परिवारेणापि गम्भीरेण परिवृतो नीलजम्बुकः कथाप्रसिद्धो न राजाऽभवच्छ्वापदानामवञ्चनीयत्वात् (25)।। अर्थादायिनमर्थलोभिनं जनं जा नीयान्नानाचित्तानुभाषकमन्यमतानुगामिनं, तस्माद् अर्थसन्ततिं निरन्तरार्थलोभं पश्यतः श्रेयान् भवत्यर्थादायिभिर्विसङ्गो वियोगः (26)।। दम्भकल्पं कृत्तिसमं कृत्या जम्बकसमानं निश्चयेन विभावयेत् निखिलं राजप्रतापस्यामोषं कृत्वोपचारे वृत्ती परीक्ष्यते विज्ञायते (27)।। स्वभावे दुर्बलं जानीयान्नानावर्णानुभाषकं विविधजात्यनुकारिणं यथा सुनन्दा पुष्पादाने प्लवकारगृहं गता, अस्य तु श्लोकार्धस्यार्थः कथाया अज्ञातत्वादस्पष्ट एव (28)।। द्रव्ये क्षेत्रे च काले च सर्वभावे च सर्वथा सर्वेषां लिङ्गवतां जीवानां भावनां विभावयेत्। (29) शारिपुत्रीयमध्ययनम्। 39 य इदं पापं कर्म न कुर्यान्न कारयेद्, देवा अपि तं नमस्यन्ति धृतिमन्तं दीप्ततेजसम् (1)।। (2) (3)।। चतुर्थस्य पूर्वार्धमपूर्णम्, उत्तरार्धं तु कर्मसञ्चयविषयं, यस्य विपाकेन साधुभूयोऽपि जायते (4)।। रहस्ये खलु भो पापं कर्म समय॑ द्रव्यतः क्षेत्रतः कालतो भावतः कर्मतोऽध्यवसायतः सम्यग् अपरिकुञ्चमानोऽनिगूहन्नालोचयेत्। -भद्रकै रसैर्भद्रकेन च संवासेन लौकिकजीवितेन नास्ति मे कार्यम्। कीदृशेन संवासेन? यत्र सञ्जयो काननवासिनो मृगान् वधायोपनामयति व्यापादयति (5)।। सञ्जयीयमध्ययनम्। 40 ___पुरा अचिरादेव प्रव्रजितः सन् साधुरिच्छां यदि वा पुरा प्रव्रज्यायाः पुरस्ताद् इच्छन्नभिलाषवाननिच्छां कुर्याद् आत्मसन्तोषमङ्गीकुर्यात्।—इच्छा बहुविधा भवति लोके यया बद्धः क्लिश्यति, तस्मादिच्छामनिच्छया जित्वा सुखम् एधते (1)।। (2) (3)।। इच्छतेच्छा वाञ्छेष्यते, अनिच्छन्नपि तामिच्छति, तस्मादित्यादि पूर्ववत् (4)।। हे साधो, द्रव्यतः क्षेत्रतः कालतो भावतो यथास्थाम यथाबलं यथावीर्यमनिगूहन्नालोचयेरिति ब्रवीमि।। द्वैपायनीयमध्ययनम्। ऋषिभाषित संस्कृत टीका 459
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy