SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ यत् पुरतो विस्तीर्णो गिरिशिखरकन्दरप्रपातः, पृष्ठतो कम्पमानमिव मेदिनीतलम्, संकृष्यमाण इव पादपः, निःस्फोटयन्निवाम्बरतलम्, सर्वतमोराशिरिव पिण्डितः, प्रत्यक्षमिव स्वयं कृतान्तः भीमरवं कुर्वन् महावारणः समुत्थितः ; उभयतः पार्श्वं चक्षुर्निपाते सुप्रचण्डधनुर्यन्त्रविप्रमुक्ताः पुङ्खमात्रावशेषा धरणीप्रवेशिनः शरा निपतन्ति, हुतवहज्वालासहस्रसंकुलं समन्ततः प्रदीप्तं धगधग इति शब्दायते सर्वारण्यम् अचिरेण च बालसूर्यगुञ्जार्धपुञ्जनिकरप्रकाशं क्षायत्यङ्गारभूतं गृहम् । आयुष्मंस्तेतलिपुत्र क्व व्रजावः ? ततः स तेतलिपुत्रामात्यः पोट्टिलं मूषिकारदुहितरमेवमवादीद् यथा 'पोट्टिले, एहि तावद् आजानीहि यल्लोकभीतस्य जनस्य खलु भोः प्रव्रज्या हिता, अभियुक्तस्य हितं प्रत्ययकरणम्, अध्वपरिश्रान्तस्येत्युक्तज्ञाताद् अध्याहार्यं वहनकृत्यम्, मायिनो रहस्यकृत्यम्, उत्कण्ठितस्य स्वदेशगमनकृत्यम् क्षुधितस्य भोजनकृत्यम् पिपासितस्य पानकृत्यम्, परं पुरुषमभियोक्तुकामस्य शास्त्रकृत्यम् । क्षान्तस्य तु दान्तस्य गुप्तस्य जितेन्द्रियस्यैषामेकमपि न भवति । तेतलिपुत्राध्ययनम्। 11 आज्ञाय लौकिकज्ञानमधिगम्य शिष्टजन इवेति वा एवेति वा भवत्यमुनिः, परंत्वज्ञात्वालौकिकज्ञानमनधीत्याऽऽध्यात्मिकं सङ्ख्यायावधार्यैवैष स एव मुनिस्त्रायी भवति । त्रायी तु कीदृश इत्युच्यते —स पुरुष एजति व्येजति क्षुभ्यति घट्टति स्पन्दति चलति उदीरयति तं तं भावं परिणमति, न स त्रायी । स नैजति यावत् परिणमति, स त्रायी । त्रायिणां च खलु नास्त्येजनं व्येजनं क्षोभनं घट्टनं स्पन्दनं चलनं उदीरणं तं तं भावं परिणामः । त्रायी खल्वात्मानं च परं च चतुरन्तात् संसारकान्तारात् त्रातीति त्रायी। असंमूढस्तु यो नेता मार्गदोषात् कुमार्गदोषं वर्जयन् पराक्रमो यस्य स तथा, सन्मार्गेण व्रजन्नित्यर्थः । गमनीयां गतिं ज्ञात्वा गामिनं तां प्रापयति ( 1 ) ।। शिष्टकर्मा तु यो वैद्यः शस्त्रकर्मणश्च कोविदः स वीरः सन् रोगिणं मोचयति मोचनीयाद् रोगात् (2) यस्तु द्रव्याणां गुणलाघवे विधानं संयोजयति तृणमिव तानि गणयति, स सत्यं संयोगनिष्पन्नं कार्यं करोति ( 3 ) ।। विद्योपचार विज्ञाता विद्योपचारयोः कोविदो यो धीमान् सत्त्वसंयुतो भवति स विद्यां साधयित्वा तत्क्षणं कार्यं करोति (4) ।। (5)।। मस्करिपुत्राध्ययनम्। 12 यावद् यावल्लोकैषणा लोकसम्बन्धस्तावत् तावद् वृत्तैषणा लोभ इति तद्विपरीतश्चालापको द्रष्टव्यः । आणच्च त्ति आज्ञायेतीहासंबद्धत्वात् पूर्वगताध्ययनस्य टिप्पणत्वाच्चानादृतम्। स मुनिर्लोकैषणां च वृत्तेषणां च परिज्ञाय ऋषिभाषित संस्कृत टीका 441
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy