SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ लुप्ताः। लेपोपरतास्तु संसारं व्यतिक्रान्ता जीवा शिवेत्यादिविशेषितं स्थानमभ्युपगतास्तिष्ठन्ति। स जीवः सर्वकर्मविरतो भवति न च क्वचित् सजति, तस्मात् सर्वलेपोपरतो भविष्यामीति कृत्वैवमर्हतर्षिणा भाषितम्।। इति चिह्नितपुस्तकमनुसृत्य न केवलं हिंसा-परिग्रहाभ्यां किन्तु मृषावादाऽदत्तादानमेहनैर्वर्णितः कर्मलेपः, पाठस्त्वधस्ताल्लिखितः (1)।। (2) (3) (4) (5) (6)।। क्षीरं यथा दूषिं विषं प्राप्य विनाशमुपगच्छत्येवं रागो वा द्वेषो वा ब्रह्मचर्यविनाशनौ भवतः (7)।। यथा तु प्रधानं विशिष्टं क्षीरं मूर्छनया दधि जायत एवं गृद्धिदोषेण पापं कर्म प्रवर्धते (8)।। अरण्ये दावाग्निना दग्धा वनपादपाः पुना रोहन्ति, मुनेस्तु क्रोधाग्निना दग्धानां दुःखानां निवर्तनं प्रत्यागमो न भवति। कस्तु नाम दुःखानां प्रत्यागममिच्छेदित्यस्पष्टम् (9) असित-देविलाध्ययनम्। आदानं कर्मोपादानं, तद् रक्षति निगूहतीत्यादानरक्षी। आदानरक्षी भवति पुरुषो, न किञ्चिज्जानात्यपरं जनम्। असाधुकर्मकारी खल्वयं पुरुषः, पुनरपि पापैः कर्मभिश्चोद्यते नित्यं संसार इति।—यस्य पापं शीलं जानन्ति तेन संवस्तुं न शक्नुवन्ति मानवास्तस्मात् परममत्यर्थंप्रतिच्छन्ना निगढा भवन्ति मायया दष्टमानसाः (1)।। निजदोषान् हि निगृहन्नात्मानं चिरमपि नोपदर्शयेदिह न कोऽपि मां जानीयादिति मत्वाऽऽत्महितं स्वयं न जानाति (2)।। (3)।। सुयाणि त्ति सूयाणे त्ति स्थाने सुज्ञातं भवति चित्रं भित्त्यां काष्ठे वा निवेशितम्, इदं मनुष्यहृदयं तु गहनं दुर्विज्ञातव्यम् (4)।। अन्यथा स भवति मनसि, अन्यत् कर्मणा चेष्टितेन कुर्वन्ति, अन्यत् तु भाषन्ते, एवमन्येभ्यो मनुष्येभ्यो गहनः खलु स पुरुषः (5)।। (6) (7) (8) (9) (10)।। पूर्वरात्रे तथाऽपररात्रेऽतीतातीततरकाले सङ्कल्पेन चिकीर्षया बहु कृतं यत् सुकृतं वा दुष्कृतं वा कर्म तत् कर्तारमनुगच्छति तस्य जीवे सजति (11)।। सुकृतं दुष्कृतं वाऽप्यात्मनैव जानाति, न त्वन्यः कश्चिदेनं विजानाति (12)।। (13) (14) (15) (16) (17) (18) (19)।। यो यत्र विद्यते भावो यो वा यत्र न विद्यते स स्वभावेन सर्वोऽपि लोके प्रवर्तते (20)।। विषं वाऽमृतं वाऽपि स्वभावेनोपस्थितम्, एवं चन्द्रसूर्यो मणियॊतिस्तमोऽग्निौंः क्षितिः (21)।। वदतु जनो यदस्येष्टम्, तृणवत् तद् गणयामि, किं नु करोम्यहं यज्जनेनात्मतः स्वभावेनोदीर्णम् ? नैवास्मि तस्य कर्तेति भावः नास्तीदृशं मम भावितमिति संख्यायाऽहं न संज्वलामि न क्रुध्ये, किंतु जनस्याक्षेपं क्षमे। इदं तु लश्रृतिगर्भ वैतालीयमन्यस्य कस्यचित् कवेः कृतिरिव दृश्यते (22)।। (23) (24)।। आङ्गिरस भरद्वाजाध्ययनम्। ऋषिभाषित संस्कृत टीका 437
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy