SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ऋषिभाषित संस्कृत टीका सोयव्वं ति श्रोतव्यं शिक्षितव्यमेव वदतीति श्रोतव्यमेव प्रवदति येन समय यद् आदाय मुच्यते लोकः सर्वदुःखेभ्यः। तस्माच्छ्रोतव्यात् परं न किञ्चिदस्ति श्रोतव्यम्। सोयं ति शौचमिति पुस्तकानां पाठः वृद्धलेखकानां भ्रम इति नाद्रियते। प्राणातिपातं त्रिविधं त्रिविधेन काय-वाङ्-मनोभिरेव, चरण-करण-त्रिकाभ्यामिति चेन्न, नैव कुर्यान्न कारयेदिति करणत्रिकस्य प्रथम-द्वितीयाङ्गयोरुक्तत्वात्। मृषावादोऽदत्तादानमब्रह्म-परिग्रहाविति द्वितीयादीनि श्रोतव्यानि, चतुर्थ-पञ्चमे त्वेकीभूते इति चित्रम्। (1) (2)।। अडयं ति अटमान इति मन्यामहे, उपधानं तपस्, तत् सेवमान उपधानवान् भवति (3)।। सत्यमदत्तं ब्रह्मचर्यम् चेति त्रीण्येवोपसेवते श्रद्धी, उपधानवन्ति चैतानि त्रीण्येवोक्तानि महाव्रते द्वितीय (प्रथम) पञ्चमे अनादृत्य। ___ एवं स बुद्धो विरतो विगतपापो दान्तो द्रव्योऽलं ति समर्थस्त्यागी त्रायी वा न पुनरपि इच्चत्थं ति इत्यर्थं लौकिकवृत्त्यर्थं इत्थत्तं ति वाऽत्रत्वमत्रभावित्वं समागच्छति समागमिष्यतीति ब्रवीमीति सर्वेष्वप्यध्ययनेषक्तमालापकमस्मिन् प्रथम एव लिखितुमलमिति। नारदाध्ययनम्। यस्मात् कृत्यात् पापकर्मणो भीताः पलायन्ते दीर्णेऽव वाहिनी सेना तदेवादाय जीवाः कर्मानुगामिनो भवन्तीत्यस्य श्लोकस्य द्वितीय-चतर्थपादयोरपरिहार्यो विनिमयः (1)||-अप्पे त्ति आत्मनि (2)।। (3) (4) (5) (6) (7)।। दुःखमूलं च मोहजन्मनीति सप्तमे श्लोक उक्ते अज्ञानेन संसारे समर्जितं यस्मात् तस्मात् कर्माणि मूलतो हन्यात्। मृगारिः सिंहो यथोषरं प्राप्य सरउत्पत्तिं मार्गतीति पञ्चदशाध्ययनानुसारेणाध्याहार्यम्, अस्य तु श्लोकस्य तृतीयपादोऽन्यस्मात् कस्माच्चिदन्वयादिहैव प्रविष्टो भविष्यति (4)।। वात्सीपुत्राध्ययनम्। लेपः कर्म कषायो वा। भवितव्यं खलु सर्वलेपोपरतेन। लेपोपलिप्ताः खलु भो जीवा अनमदग्रं दीर्घाध्वानं चतुरन्तं संसारसागरमनुपरिवर्तन्त इत्याद्यनेकशब्दा 436 इसिभासियाई सुत्ताई
SR No.006236
Book TitleRushibhashit Sutra
Original Sutra AuthorN/A
AuthorVinaysagar, Sagarmal Jain, Kalanath Shastri, Dineshchandra Sharma
PublisherPrakrit Bharti Academy
Publication Year2016
Total Pages512
LanguageHindi
ClassificationBook_Devnagari & agam_anykaalin
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy