________________
धर्मपरीक्षाकथा
प्रणिपत्य जिनं भक्त्या स्याद्वादवरनायकम् । कथां धर्मपरीक्षाख्यामभिधास्ये यथागमम् ॥
तद्यथा - विपुलगिरौ धीरनाथसमवसरणें इन्द्रभूतिगणिना यथा श्रेणिकाय कथिता तथाचार्य परंपरयागता संक्षेपेण मया निगद्यते ।
तद्यथा - जम्बूद्वीप भरतविजयार्घदक्षिणश्रेणौ वैजयन्तीपुरोनायजितारिवायुराज्ञीवेगयोरपत्यं मनोवेगः । तत्रैवोत्तरश्रेणौ विजयपुराधीशप्रभाशङ्खविपुलमत्योरपत्यं पवनवेगः । तौ परस्परं सखित्वं गतौ । पुष्पदन्तोपाध्याय समीपे शास्त्रास्त्रज्ञौ जातौ । तदनु गौरीगान्धारीमनोहरीशीघ्र प्रज्ञप्तिप्रभृतिविद्याः साधितवन्तौ । तयोरेकस्वभावयोरपि मध्ये मनोवेगः सदृदृष्टिः सम्यग्दृष्टिरितरो विपरीतः ।
एकदा मनोवेगो भरते आयंखण्डस्थितान् जिनालयान् पूजयितुं गतः । अत्र कथान्तरम् - सुकोशलदेशे अयोध्यायां राजा वासुपूज्यः । तन्मण्डलिकजयंधरसुन्दर्योः पुत्री सुमतिः । भीत्या वासुपूज्याय दत्ता । जयंधरस्य भागिनेयः पिङ्गलाख्यो रूपदरिद्रः । मह्यं स्थिता कन्यानेन परिणीता । सांप्रतं मयास्य fifteeतु न शक्यते । भवान्तरे ऽस्य विनाशहेतुर्भवामीति तापसो भूत्वा मृतो राक्षसकुले धूमकेतुर्नाम देवो जातः । इतो ऽयोध्यायां वासुपूज्य सुमत्यो ब्रह्मदत्ताख्यः पुत्रो जातः । एकदोज्जयिनीबाह्योद्याने ध्यानेन स्थितः । धूमकेतुना च दृष्टः । तद्वैरं स्मृत्वा तेन मुनेदुर्धरोपसर्गः कृतः। ततः स्वसंवेदनाख्यशुक्लध्यानबलात् समुत्पन्ने केवले देवागमो जातः । धनदेवेन तद्योग्या समवसृतिः कृता । सर्वान् जिनालयान् पूजयित्वा स्वपुरं गच्छतो मनोवेगस्य तदुपर्याकाशे विमानागतिरभूत् । किमित्यधोऽवलोक्य दृष्टे तस्मिन् हृष्टः खगः । तत्र गत्वा तं स्तुत्वा स्वकोष्ठे उपविष्टः । धर्मश्रवणानन्तरं समुद्रवत्तवणिजा संसारिजीवसुखदुःखप्रमाणे पृष्टे दिव्यध्वनिना भगवान् दृष्टान्तद्वारेणाह |
afreeपुरुषो नगरमार्गेण गच्छन् सार्थमध्ये होनो ऽटवीमध्ये गच्छन् विन्ध्यहस्तिना दृष्टः । तद्भयान्नश्यन्नन्धकूपे पतितः । तन्मध्यस्थकाशमूलं धृत्वा स्थितः । करिणा तमप्राप्य तत्तटस्थवृक्षो दन्ताभ्यां हतः । तत्र स्थितमधुच्छत्रे कम्पिते तदबिन्दुपतनावसरे ऊर्ध्वमवलोकितम् । तेन बिन्द्वास्वादने कृते तन्मक्षिकाभिर्भक्ष्यमाणो ऽवलोकयन् तत्र काशमूलाग्रे मूषिकाभ्यां श्वेतकृष्णभ्यां खण्डयमाने घो ऽजगरं चतसृषु विक्षु सर्पचतुष्टयं दृष्टवान् । तत्सर्वमवगणय्यापरो sपि बिन्दुः पतितश्चेत् समीचीनं मन्यते । तत्र नगरमार्गे मुक्तिमार्गः सम्यक्त्वम् । तत्परित्यागो scalमार्गः संसारमार्गे मिथ्यात्वम् । तत्राटवी संसारः । हस्ती मृत्युः । कूपः शरीरम् । वृक्षः कर्मबन्धः । मूलम् आयुः । मूषिकौ शुक्लकृष्णपक्षौ । अजगरो दुर्गतिः । सर्पाः कषायाः । मक्षिका
४५