________________
४
श्रीवज्रपक्षरस्तोत्रम् ।। ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्चराभं स्मराम्यहम्
।।१।। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सवसिद्धाणं, मुखे मुखपटं वरम् ।।२।। ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायणं, आयुधं हस्तयो दृढम् ।।३।। ॐ नमो लोए सब्बसाहूणं, मोचके पादयोः शुभे । एसो पत्र नमुक्कारो, शिला वज्रमयी तले ।।४ ।। सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका
।। ५ ।। स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे
।।६।। महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः
।।७।। यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन
।।८।। આ વનપંજર સ્તોત્ર ચેષ્ઠાપૂર્વક બોલી-આત્મરક્ષા કરવી. પછી શ્રી નમસ્કાર મહામંત્રનું હૃદયમાં ચિંતવન કરતાં પૂજન શરૂ કરવું.