________________
समस्तसाधुसाध्वीश्रावक-श्राविकाणां राजामात्यपुरोहितसामन्तश्रेष्ठि सार्थवाहप्रभृतिसमग्रलोकानां च स्वस्तिशिव-शान्ति-तृष्टि-पुष्टि-श्रेयः-समृद्धि-वृद्धयो भवन्तु भवन्तु । दुर्मिक्षाशिवरोगादिदोषनिवहाः प्रशाम्यन्तु प्रशाम्यन्तु । राजा विजयी भवतु भवतु । प्रजास्वास्थ्यं भवतु भवतु । श्रीसको विजयी भवतु भवतु । ॐ स्वाहा ॐ स्वाहा भुवः स्वाहा स्वः स्वाहा ॐ भूर्भुवः स्वः स्वाहा ।। शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भतूगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवतु लोकः।। उपसर्गाः क्षयं यान्ति, छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे ।। सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।। ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत्सर्वं कृपया देवाः । क्षमन्तु परमेश्वराः आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! इत्यपराधक्षामणम् । त्रण खमासमण देवा पूर्वक अपराधक्षामण करवू ।
। अथ विसर्जनम् । श्री विंशतिस्थानकभगवदाद्याः स्वस्थानाय गच्छन्तु यः यः पुनरागमनाय प्रसीदन्तु प्रसीदन्तु स्वाहा ।। (इति विसर्जनम्) ।
।। इति श्री विंशतिस्थानकपूजनविधिः ।।
||१||
||२||
૪૧