________________
४०
|| अथ शान्तिदण्डकः ।।
नवकार महामन्त्र (त्रणवार) ॐ हीं सकलमङ्गग-माला-मन्दाकिनी-प्रसवहिमवते निरवधिका-तिशयानन्दो-दन्वते श्रीपरमार्हते नमो नमः। जयन्तु जगदेकनायकाः विश्वविश्वोपकार-करणप्रवणाः समस्ता अपि तीर्थकृन्दभवन्तः । ॐ भूतभाविभवभ्दावभासनोल्लासन-स्तंभवन्मध्याह्न-भास्कराय जिनप्रवचनाय नमो नमः । जिनशासननिःस्यन्दायमान श्री विंशतिस्थानक-पदाधार-रुपाय श्रीसङ्घाय नमो नमः । ॐ अर्हद्भ्यो नमः । ॐ सिद्धेभ्यो नमः । ॐ प्रवचनाय नमः ।। ॐ आचार्येभ्यो नमः । ॐ स्थविरेभ्यो नमः । ॐ उपाध्यायेभ्यो नमः । ॐ सर्वसाधुभ्यो नमः । ॐ सम्यग्ज्ञानाय नमः। ॐ सम्यग्दर्शनाय नमः । ॐ विनयाय नमः । ॐ सम्यक्चारित्राय नमः । ॐ ब्रह्मचर्याय नमः। ॐ क्रियारै नमः । ॐ सम्यक्तपसे नमः । ॐ गौतमेन्द्रभूतये नमः । ॐ जिनेभ्यो नमः । ॐ संयमाय नमः । ॐ अभिनवज्ञानाय नमः । ॐ श्रुतज्ञानाय नमः । ॐ तीर्थाय नमः । ॐ जिनेभ्यो नमः । ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्ताम् । श्री अर्हदादयो भगवन्तो मयि प्रसन्ना भवन्तु भवन्तु । श्री विंशतिस्थानकाधिष्ठायकदेवा देव्यश्च सानुकूला भवन्तु भवन्तु । ॐ इन्द्रा इन्द्राण्यो यक्षा यक्षिण्यो विद्यादेव्यो ग्रहा दिक्पाला लोकपाला अन्ये च सर्वे सम्यग्दृष्टयो देवा विघ्नप्रशामका धर्मसहायकाश्च भवन्तु भवन्तु |