________________
ॐ हं सं क्लीं नमः श्रीप्रज्ञप्त्यै विद्यादेव्यै भगवति श्रीप्रज्ञप्ति इह० शेषं पूर्ववत् ।।२।। ॐ रां प्रज्ञप्ती सन्तर्पिताऽस्तु स्वाहा ।।२।। वज्रशृंखला प्रति- सशृंखला गदाहस्ता, कनकप्रभविग्रहा ।
पद्मासनस्था श्रीवज्र-,शृंखला हन्तु नः खलान् ।।३।। ॐ नमः श्रीवज्रशृंखलायै विद्यादेव्यै भगवति श्रीवज्रशृंखले इह० शेषं पूर्ववत् ।।३।। ॐ रां वज्रशृङ्खला सन्तर्पिताऽस्तु स्वाहा ।।३।। वज्रांकुशी प्रति - निस्त्रिंशवज्रफलकोत्तमकुन्तयुक्त-हस्ता सुतप्तविलसत्कलधौतकान्तिः ।
___ उन्मत्तदन्तिगमना भुवनस्य विघ्नं, वज्रांकुशी हरतु वज्रसमानशक्तिः ।।४।। ॐ लं लं लं नमः श्रीवज्रांकुश्यै विद्यादेव्यै भगवति श्रीवज्रांकुशि इह० शेषं पूर्ववत् ।।४।। ॐ रां वज्राडुशी सन्तर्पितास्तु स्वाहा ।।४।। अप्रतिचक्रां प्रति - गरुत्मत्पृष्ठ आसीना, कार्तस्वरसमच्छविः ।
भूयादप्रतिचक्रा नः सिद्धये चक्रधारिणी ।।५।। ॐ नमः श्रीअप्रतिचक्रायै विद्यादेव्यै भगवति अप्रतिचक्रे इह० शेषं पूर्ववत् ।।५।। ॐ रां अप्रतिचक्रा सन्तर्पितास्तु स्वाहा ||५||
.0.
0