________________
दिननाथलक्ष-समदीप्ति-दीपिताखिल-दिग्विभाग-मणिरम्यपाणियुग । सदगण्य-पुण्यजन-सेवितक्रमो धनदो ददातु जिनपूजने धियम् ।। ॐ यं यं यं नमः श्रीधनदाय उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलाससंस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकांगाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।।७।। ॐ रां कुवेरः संतर्पितोऽस्तु स्वाहा ।।७।। ईशानं प्रति
क्षुभ्यत्क्षीराब्धिगर्भा-म्बुनिवहसतत-क्षालितांभोजवर्णः, स्वःसिध्यर्द्धि-प्रगल्भी-करणविरचिता-त्यन्त-संपातिनृत्यः ।
तार्तीयाक्षिप्रतिष्ठ-स्फुटदहनवन-ज्वालया लालिताङ्गः,
शंभुः शं भासमानं रचयतु भविनां क्षीणमिथ्यात्वमोहः ||८|| ॐ नमः श्री-ईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठाय श्वेतवर्णाय गजाजिनावृताय वृषभवाहनाय पिनाकशूलधराय श्री-ईशान सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।।८।। ॐ रां ईशानः संतर्पितोऽस्तु स्वाहा ।।८।। ब्रह्माणं प्रतिउद्यत्पुस्तकशस्तहस्तनिवहः सन्न्यस्तपापोद्भवः, शुद्धध्यानविधूतकर्मविकलो लालित्यलीलानिधिः । वेदोच्चारविसारिचालवदनो-न्मादः सदा सौम्यहक्, ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद् भव्यं समस्तं जगत् ।।