________________
यंधन :
शुक्लं शुक्लं च किंचिच्चिदधिगमसुखं सत्सुखं स्नात्रमेतन्नन्द्यान्नन्द्यात् प्रकृष्टं दिशतु शमवतां सन्निधानं निधानम् ||३|| विश्वान् संभाव्यलक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसामासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे । भावान्निर्मुच्य शोच्यानजनि जिनपतिर्यः समायोगयोगी, तस्येयं स्नात्रवेला कलयतु कुशलं कालधर्मा प्रणाशः ।।४।।
नालीकं यन्मुखस्योपमितिमलभत् क्वापि वार्तान्तराले, नालीकं येन किचित् प्रवचन उदितं शिष्यपर्षत्समक्षम् । नालीकं चापशक्त्या व्यरचयत न वै यस्य सद्रोहमोहं, नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले ।।५।। फणिनिकरविविष्टनेऽपि येनोज्झितमतिशेत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं, तदिदं चन्दन्मर्हतोऽर्चने स्युः ||
नमुत्यु... धूप सर्धने (राग स्त्रग्धरा)
ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां घ्राणहर्षात्, प्रौढिप्राप्तप्रकर्षः क्षितिरुहरसजः क्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवमृतिजराकष्टविस्पष्टदृष्ट- स्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ।।
30