________________
જિન બિંબનું દિકપાલ ગ્રહો ક્ષેત્રપાલ વગેરેનું મુદ્રા બતાવવા પૂર્વક વિસર્જન કરવું. અને ક્ષમાયાચના કરવી. ॐ अर्ह नमो भगवतेऽर्हते समये पुनः पूजां प्रतीच्छ स्वाहा । ॐ ह: इन्द्रादयो लोकापालाः सूर्यादयो ग्रहाः सक्षेत्रपालाः सर्वदेवाः सर्वदेव्यः पुनरागमनाय स्वाहा। आज्ञाहीनं क्रियाहीनं मंत्रहीनं च यत्कृतम् । तत्सर्वं कृपया देवाः क्षमन्तु परमेश्वराः ।। १ ।। आह्वानं न जानामि, न जानामि विसर्जनम् । पूजां चैव न जानामि, त्वमेव शरणं मम ।। २ ।। कीर्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् प्रदेयं त्वदासता मां नय सर्वदापि ।। ३ ।। आशातना या किल देवदेव, मया त्वदर्चारचनेऽनुषक्ता । क्षमस्व तं नाथ कुरू प्रसाद, प्रायो नराः स्युः प्रचुरप्रमादाः ।। १ ।।
।। इति लघुस्नात्रविधिः ।। आचारदिनकर ।। इति प्रथमदिने प्रातः करणीयो विधिः ।।