________________
।। अथ क्षीर स्नात्रम् ।
हाथमां कळशो राखीने आ पांच श्लोकनुं स्तोत्र मधुर स्वरे भणवुं । पछी चार जणा जमणी बाजु अने चार जणा डाबी बाजु अने एक जण सन्मुख ऊभा रहे ने नीचे प्रमाणे श्लोक - मंत्र बोलीने स्नात्र करे । पुण्याहं तदहः क्षणोऽयमनघः पूजास्पदं तत्पदं, सर्वास्तीर्थभुवोऽपि ता जलभृतस्तद्वारि हारि प्रभोः । तेऽनर्घा घुसृणादिगन्धविधयः कौम्भास्तु कुम्भाश्च ते, धन्या यान्ति कृतार्थतां जिनपतेः स्नात्रोपयोगेन ये ||१||
कुम्भाः काञ्चनरत्नराजतमयाः स्त्रक्चन्दनैश्चर्चिताः कर्पूरागरूगन्धबन्धुरतराः, क्षीरोदनीरोदयाः । भव्यैः स्नात्रकृते जिनस्य पुरतो, राजन्ति राजीकृताः, सार्वाः स्वीयशुभद्विसङ्गममये, माङ्गल्यकुम्भा इव ।।२।। श्रेणीभूय समुत्थिताः करधृतैः, कुम्भैर्हृदग्रे मुदा, भव्या भान्ति जिनस्य मज्जनकृते, पौरन्दर श्रीजुषः । संसारौघमिवोत्तरीतुमनसो ऽर्हद्दैवते मानस-, प्रासादे कलशाधिरोपमिव वा, ते कर्तुकामा इव ।।३ ।।
४३