________________
चोवीशी त्रीजी
।।२।।
।।४ ।।
11411
एवं श्रीसिद्धचक्रस्या- राधको विधिसाधकः । सिद्धाख्योऽसौ महामन्त्र - यन्त्रः प्राप्नोति वांञ्छितम् । । १ । । धनार्थी धनमाप्नोति, पदार्थी लभते पदम् । भार्याथी लभते भार्यां पुत्रार्थी लभते सुतान् सौभाग्यार्थी च सौभाग्यं, गौरवार्थी च गौरवम् । राज्यार्थी च महाराज्यं लभतेऽस्यैव तुष्टितः ।। ३ ।। एतत्तपोविधातारः, पुमांसः स्यु महर्द्वयः । सुर-खेचर - राजानो, रूपसौभाग्यशालिनः अस्य प्रभावतो घोरं विषं च विषमज्वरम् । दुष्टं कुष्टं क्षयं क्षिप्रं, प्रशाम्यति न संशयः तावद् विपन्नदी घोरा, दुस्तरा यावदङ्गिभिः । नाप्यते सिद्धचक्रस्य, प्रसादविशदा तरी बद्धा रुद्धा नरास्तावत्, तिष्ठन्ति क्लेशवर्तिनः । यावत् स्मरन्ति नो सिद्ध-चक्रस्य विहितादराः ।।७।। एतत्तपोविधायिन्यो, योषितोऽपि विशेषतः । वन्ध्या - निन्द्वादिदोषाणां प्रयच्छन्ति जलाञ्जलिम् ||८|| वैकल्यं बालवैधव्यं, दुर्भगत्वं कुरूपताम् । दुर्भगात्वं च दासीत्वं लभन्ते न कदाचन यद्यदेवाभिवाञ्छन्ति, जन्तवो भक्तिशालिनः । तत्तदेवाप्नुवन्ति श्री सिद्धचक्रार्चनोद्यताः एतदाराधनात् सम्य-गाराद्धं जिनशासनम् । यतः शासनसर्वस्व मेतदेव निगद्यते
||६||
।।९।।
।।१०।।
।।११।।