________________
रोगशोकादिभि दोषै-रजिताय जितारये । नमः श्रीशान्तये तस्मै, विहिताशिवशान्तये ॥१।। श्रीशान्तिजिन-भक्ताय, भव्याय सुखसम्पदाम् । श्रीशान्तिदेवता देया-दशान्ति-मपनीयताम् ।।२।। अम्बा निहितडिम्भा मे, सिद्धि-बुद्धि-समन्विता । सिते सिंह स्थिता गौरी,वितनोतु समीहितम् ।।३।। धराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां, पातु फुल्लत्फणावली ।।४।। ५४ चंचच्चक्रधरा चारु - प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ।।५।। खड्गखेटकोदण्ड-बाणपाणिस्तडिद्युतिः । तुरंग-गमनाऽच्छुप्ता, कल्याणानि करोतु मे ।।६।। मथुरायां सुपार्श्वश्रीः, सुपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुतावाऽवतु वो भयात् ।।७।। ब्रह्मशांतिः स मां पाया-दपायाद् वीरसेवकः । श्रीमद् वीरपुरे सत्या, येन कीर्तिः कृता निजा ||८|| श्रीशक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः । देवीदेवास्तदन्येऽपि, संघं रक्षन्त्वपायतः ।।९।। श्रीमद् विमानमारूढा, मातंगयक्षसंगता | सा मां सिद्धायिका पातु चक्रचापेषुधारिणी ।।१०।। જ પછી તે તે મુદ્રાઓ દ્વારા વજ પંજર કરવું. (પાના નં. ૨)