________________
आगम
(०५)
प्रत
सूत्रांक
[६१७
६४८]
गाथा
दीप अनुक्रम
[७२१
७५७]
श्रीभग लघुवृर्त्ती
KKCJCICHIGOG
“भगवती" - अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग - २
शतक [१८], वर्ग [-], अंतर्र-शतक [-] उद्देशक [१-१०], मूलं [ ६१७-६४८ ] + गाथा
परिग्रहः, एतस्योपधेश्व को भेदः ?, उच्यते, उपकारक उपधिर्ममत्वबुद्धितः परिगृयमाणस्तु परिग्रह इति । 'पणिहाणे 'ति प्रकर्षेण नियते आलम्बने धानं धरणं मनःप्रभृतेरिति प्रणिधानं । 'एवं जहा सत्तमसए' (सू. ६३५) इत्यादिना यत्सूचितं तचेदं, कालोदाई सेलोदाईसेवालोदाईप्रभृतिकानामन्ययूथिकानामेकत्रमिलितानां मिथः कथासंलापो जातो यन्महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, धर्माधर्म्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकार्य च सचेतनं, तथा धम्र्म्माधर्म्माकाशजीवास्तिकाया न रूपिणः, पुद्गलास्तिकायं च रूपिणं प्रज्ञापयति, 'से कहमेयं मण्णेत्ति अथ कथमेतद्धर्मास्तिकायादि वस्तु मन्ये इति वितर्कार्थः एवं सचेतनाचेतना दिरूपेण दृश्यमानत्वेना सम्भवस्तथेति हृदयं, 'अविउप्पकड'त्ति अपिः सम्भावने उत्-प्राबल्येन प्रकृता प्रस्तुता प्रकटा वा उत्प्रकृता उत्कटा वा तथा अविद्वद्भिः अजानद्भिः प्रकृता प्रस्तुता अविद्वत्प्रकृता । 'जड़ कज्जं कजइति यदि तैर्धर्मास्तिकायादिभिः कार्यं स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामः, अवगच्छाम इत्यर्थः, धूमेनाग्निरिव, अथ तैः कार्य न क्रियते तदा न जानीमो न पश्यामः, अयमभिप्रायः कार्यादिलिङ्गद्वारेणैवाग्टशामतीन्द्रियपदार्थानामवगमः स्यात् न च धर्मास्तिकायादीनामस्मत्प्रतीतं किञ्चित् कार्यादिलिङ्गं दृश्यते इति तदभावात् तलो जानीम एव वयमिति, अथ मडुकं धर्मास्तिकायाद्य परिज्ञानन्तमुपालम्भयितुं यत्ते प्राहुः तदाह- 'केस णं'ति क एवं त्वं मडुक ! श्रमणोपासकानां मध्ये भवसि यस्त्वमेनमर्थं श्रमणोपासक ज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षगं न जानासि न पश्यसि १, न कश्चित् त्वमि त्यर्थः एवमुपालब्धः सन्नसौ यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसम्भव उक्तः तद्विवदनेन तान् प्रतिहन्तुमिदमाह - 'घाणसहगए' इत्यादि, 'सुट्टु णं'ति सुष्ठु एवं मडुक ! येन त्वया अस्तिकायानजानता न जानीम इत्युक्तं, अथ च अजानन्नपि यदि जानीम
मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०५], अंगसूत्र [०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
188~
१८ श०
७ उद्देशः
॥२४९॥