________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप अनुक्रम [११-३६]
"आवश्यक" - मूलसूत्र -१ (निर्युक्तिः + चूर्णि :)
आयं [२००-२२७]
अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [गाथा-१,२], निर्युक्तिः [१२४३-१४१५/१२३१-१४१८
मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रतिक्रमणा ध्ययने
॥ ९० ॥
-
द्विधा देशसामंतक्रिया सर्वसामंतक्रिया, प्रेक्षकान् प्रति यत्रैकदेशेनागमो भवत्यसंयतानां सा देशसामंतक्रिया, सर्वसामन्तक्रिया यत्र सर्वतः समंतात्प्रेक्षकाणामागमो भवति सा सर्वसामन्तक्रिया १२। अनुपात क्रिया प्रमत्तसंयतानामप्यन्नपानं प्रत्यनवगुण्डने संपातिमसवानां विनाश इति १३ अनाभोगक्रिया द्विविधा- आदाननिक्षेपणानाभोगक्रिया उत्क्रमणानाभोगक्रिया, तत्रादान० रजोहरणपात्र - श्रीवरादिकानामप्रत्युपेक्षितानामप्रमार्जितानामना भोगेनादाननिक्षेपौ, उत्क्रमणानाभोगक्रिया लंघनप्लवनधावनसमीक्षागमनागमनादि १४ । स्वहस्तक्रिया दुविधा- जीवस्व० अजीवस्व०, जीवं स्वहस्तेन ताडयति, वस्त्रं पात्रं वा०१५ | निसर्गक्रिया द्विविधा-जीवनिसर्गक्रिया अजीवनिसर्गक्रिया, तत्र जीनिसर्गक्रिया जीवं निसृजति, अजीवनि० पात्रं वा चीवरं० वा १६ । वियारणक्रिया द्विविधाजीववियारणकिया अजीववियारणक्रिया, जीवमजीवं वा अभासिएस विक्केमाणो दोभासिओ वियारेति, अह्वा जीवमजीवं वा विदारयतीति १७| आज्ञापनक्रिया नाम स्वपुत्रं शिष्यं वा आज्ञापयति १८ । अनवकांक्रिया द्विविधा स्वात्मानवकांक्रिया परात्मानवकांचक्रिया, तत्र स्वात्मना न्यक्करोति येनात्मानं नावकांक्षति अथवा तदाचरति येन परं नावकांक्षति १९ । आरंभक्रिया द्विविधाजीवारंभक्रिया अजीवारंभक्रिया, तत्र जीवारंभक्रिया जीवानारभते, अजीवारंभक्रिया अजीवानारभते २० । परिग्रहक्रिया द्विविधा-जीवनरिग्रहक्रिया अजीवपरिग्रह क्रिया २१ । मायाक्रिया द्विविधा आत्मवक्रीकरणमायाक्रिया परवक्रीकरणमायाक्रिया २२ । रागक्रिया द्विविधा मायाश्रिता लोभाश्रिता या अहवा तद्वचनमुदाहरति येन परस्य राग उत्पद्यते २३ द्वेषक्रिया द्विविधा - क्रोधाश्रिता मानाश्रिता च क्रोधक्रिया आत्मना क्रुध्यति, परस्य वा क्रोधमुत्पादयति, मानक्रिया स्वयं माद्यति परस्य वा मानमुत्पादयति२४ । अप्रत्याख्यानक्रिया अविरतानामेव, न क्वचिद्विरातरस्तीति २५ । एताः पंचविंशतिः क्रिया आश्रवभूता भवतीत्येवं वाच्यं ।
(96)
क्रियाविचारः
॥ ९० ॥