________________
बृहद्गच्छीय लेख समुच्चय प्रताप निलयः श्री कीर्तिपालो भवद् भूनाथ: प्रति पक्ष पार्थिव चमूदाशंबु वाहो पमः। यत्खङ्गां बुनिघौ हतारि करिणां कुंभस्थलीभ्यः क्षरन्मुक्तानां निकरो पराल ललितं धत्ते स्म धारा श्रयः ॥ ३५ ॥ यो दुर्दात किरात कूट नृपतिं भित्वाशरैरासलं तस्मि न्कांसहदे तुरुष्क निकरंजित्वारण प्रांगणे । श्री जावालिपुरे स्थितिं व्यरचयन्नदुल राज्येश्वर चिंता रत्न निभः समग्र विदुषां निःसीम सैन्याधिपः ॥ ३६ ॥ श्री समर सिंह देवस्तत्तनयः क्षोणि मण्डलाधिपतिः । इन्द्र इव विबुध हृदयानन्दी पुरुषोत्तमो हरिवत् ॥ ३७ ।। प्राकारः कनका चले विरचितो येनेह पुण्यात्मना नाना यंत्र मनोज्ञ कोष्ठक ततिर्विद्याधरी शीर्षवान्। किं शेष: फण वृंदमेदुर तनुर्वक्षस्थलेवा भुवो हारः किं भ्रमण श्रमादुडु गणः किं वैष भेज स्थितिं ॥ ३८ ॥ कमल वनमिवेदं वप्रशीर्षा लि दंभानिखिल विपुल देश श्री समा कर्षणाय । लिखित विशद् विंदु श्रेणिवन्मत्त वैरि क्षितिपति विफला जिस्तोम संख्या निमित्तं ॥ ३९ ॥ तोलयामास यः स्वर्णैरात्मानं सोमपर्वणि । आराम रम्यं समरपुरं यः कृतवानय ॥ ४० ॥ श्रीकीर्ति पाल भूपति पुत्रो जावालि पुरवरे चक्रे । श्री रूदल देवी शिव मंदिरयुगलं पवित्र मतिः ॥ ४१ ॥ श्री समरसिंह देवस्य नंदन: प्रबल शौर्य रमणीयः । श्री उदयसिंह भूपतिरभूत्प्रभाभास्वदुपमानः ॥ ४२ ॥ श्री नझूल-श्री जावालिपुरमाण्डव्यपुर-वाग्भटमेरु-सूराचंद्रराटद-खेड-रामसैन्य श्री माल-रत्नपुर-सत्यपुर-प्रभृति देशा नामय मधिपतिः ॥ ४३ ॥ शेष: स्तोतुमिव प्ररूढ रसना भारः समंतादभूत् क्षीराब्धि: परिरब्धु मुधुरभुजः कल्लोल माला मिषात्। द्रष्टुं चानि मिषाक्षि -पंकज वनो वास्तो: पतिर्यस्य तां विश्व श्री हृदयस्य हारलतिकां कीर्तिं सितांशूज्ज्वलां ॥ ४४ ॥ श्री प्रह्लादनदेवी राज्ञो यस्यां गजं प्रसूते स्म । श्री चाचिग देवाहूं तथैव चामुंडराजाख्यं ॥ ४५ ॥ धीरो दात्तस्तुरुष्काधिपमददलतो गूर्जरेंद्रेर जेयः सेवायात क्षितीशोचित करण पटुः सिंधु राजांतको यः। प्रोद्दामन्याय हेतु भरत मुख महा ग्रन्थ तत्त्वार्थवेत्ता श्री मज्जावालिसंज्ञे पुरि शिव सदन द्वंद्व कर्ता कृतज्ञः ।। ४६ ॥ तत्पट्टोदय शैल भानुरनघप्रोद्दाम धर्म क्रिया निष्णात: कमनीय रूप निलयो दानेश्वरः सु प्रभुः । सौम्यः शूर शिरोमणिश्च सदय: साक्षादिवेंद्र: स्वयं श्री मांश्चिाचिग देव एव जयति प्रत्यक्ष कल्पद्रुमः ॥ ४७ ।। मूभंगेन भयंकरेण विजित प्रत्यथिं भूमी पति: श्री मांश्चाचिग देव एव तनुते निर्विघ्न वृत्तिं भुवं । द्वैजिह्वयं विदधातु पन्नग पतिर्वक्रं वराहो मुखं कूर्मों नक्रततिं करींद्र निवहः संघात सौस्थ्यं परं ॥ ४८ ॥ मेरो: स्थैर्य वचन रचनं वाक्पते यस्य तुल्यं पृथ्वी भारोद्धरणमसमं पन्नगेंद्रानुषंगि । लाक्षाद्राम: किमयमथवा पूर्ण पीयूष रश्चिश्चिंता रत्नं प्रणयिनि जने देव एवैष तस्मात् ॥ ४९ ॥ स्फूर्जद्वीरम गूर्जरेश दलनीय: शत्रु शख्यं द्विषंश्चंचत्पातुक पातनैकरसिकः संगस्य रंगा पहः ।