________________
बृहद्गच्छीय लेख समुच्चय
५५
महींदुर जनिष्ट भूपतिः । यत्कृपाण लतिकामुपेयुषां छायया विरहितं मुखं द्विषां ॥ ९ ॥ जज्ञे कांतस्तदनुचभुवस्तत्तनुजो श्वपालः कालः क्रूरे द्विषि सुचरिते पूर्ण चंद्रायमानः । यः संलग्नो न खलु तमसा नैव दोषाकरात्मा तेजो भक्तः क्वचिदपि न यः किंच मित्रोदयेषु ॥ १० ॥ केयूरा निविष्ट रत्न निकर प्रोद्यत्प्रभाडंवरं व्यक्तं संगर रंग मंडपतले यं वैरिलक्ष्मीः श्रिता। वीरेषु प्रसृतेषु तेषु रजसा नीतेषु दुर्लक्ष्यतां लब्धो पायबलापि निर्मल गुणैर्वश्या प्रशस्या कृतिः ॥ ११ ॥ पुत्रस्तस्याहिल इति नृपस्तन्मयूख च्छलेन स्रष्टा यस्य व्यधित यशसां तेजसां तोलनां नु । गंगा तोले शशि तपनयो भतश्चारु चेले मध्यस्थायि ध्रुवमिष लसत् कंटके कौतुकेन ॥ १२ ॥ गुर्जराधिपति भीम भूभुजः सैन्य पूर मजयद्रणेषु यः । शंभुवत् त्रिपुर संभवं बलं वाडवानल इवांबुधे र्जलं ॥ १३ ॥ सैन्या क्रांता खिल वसुमती मंडलस्तत्पितृव्यः श्रीमान् राजा भवदथ जिताराति मल्लो णहिल्लः । भीम क्षोणी पति गज घटा येन भग्ना रणाग्रे हृद्यार्थां भोनिधि रघु कृते वहे पंक्तिः खलानां ||१४|| अंभोजानि मुखान्यहो मृग द्वशां चंद्रो दयानां मुदो लक्ष्मीर्यत्र नरोत्तमानुसरण व्यापार पारंगमा । पानानि प्रसभं शुभानि शिखरि श्रेणीव गुप्यद्गुरुस्तोमो यस्य नरेश्वरस्य तुलनां सेनांबु राशेर्दधौ ।। १५ ।। उव्वींरुद् विटपावलंब सुगृही हर्म्येषु दत्त्वा दृशं ध्यातात्यंत मनोहराकृति निज प्रासाद वातायनः । भूस्फोटानि वनांतरेषु विततान्या लोक्य हाहेति वाक् सस्मारा तपवारणानि शतशो यद्वैरि राज व्रज ॥ १६ ॥ दृष्टः कैर्न चतुर्भुजः स समरे शाकंभरी यो बलाज्जग्राहानुजधान मालव पतेर्भोजस्य साढाह्वयं । दंडाधीशम पार सैन्य विभवं तीव्रं तुरुष्कं च यः साक्षाद्विष्णुर साधनीय यशसा शृंगारिता येन भूः ॥ १७ ॥ जज्ञे भूभृत्तदनु तनयस्तस्य बाल प्रसादो भीमक्ष्मा भृच्चरण युगली मर्द्दन व्याजतो यः । कुर्वन्पीडा ि बलतया मोचयामास कारागाराद् भूमी पति मपि तथा कृष्णदेवाभिधानं ॥ १८ ॥ श्रीकर्योजलदभ्रमं दधुरहो सैन्येस्य सेवारसा यातर्तुप्रतिमे समुज्ज्वल पटा वासा मराल श्रियं । कंपं वायु वशेन केतु निवहाः शस्यानुकारं च ते सङ्गीतानि च कोकिलारव तुलां चित्तेतु तापं द्विषः ।। १९ ।। श्रीमांस्तस्याजनि नर पतिर्बांधवो जिंदुराजो यः संडेरेऽर्क इव तिमिरं वैरि वृंदं विभेद । यस्य ज्योतिः प्रकरमभितो विद्विषः कौशिकाभा द्रष्टुं शक्ता न हि गुहा मध्यमध्या श्रितास्तत् ॥ २० ॥ गच्छतीनां रिपु मृगदृशां भूषणानां प्रपाते वाष्पासायैर्घनतति तुलां बिभ्रतीनामरण्ये । दूर्वा भ्रांतिं मरकत मणि श्रेणयोयत्प्रयाणे तांबूलीय भ्रममिव चिरं चक्रिरे पद्म रागाः ।। २१ ।। पृथ्वीं पालयितुं पवित्र मतिमान् यः कर्षुकाणां करं मुंचन् प्राप यशांसि कुंद धवला न्यानंद हृद्याननः । पृथ्वी पाल इति ध्रुवंक्षिति पति स्तस्यांग जन्माभवत्प्रत्येक्षीरु निधिः स गूर्जर पतेः कर्णस्य सैन्या पहः ॥ २२ ॥ यत्सेना
-