________________
सूक्तमुक्तावली दत्त्वा प्रवव्राज । तत्र समयेतौ पालकपुत्रौ प्रभोः पार्थवर्तिनौ नाऽभूताम्, केनापि कारणेन देशान्तरङ्गतवन्तौ । ततः कियत्कालानन्तरं समागतौ तौ भ्रातरौ तदावासे प्रभुमपश्यन्तौ लोकमेवं पप्रच्छतुः |
किं भोः!जगत्प्रभुं तातचरणं गृहे कथं न पश्यावः ?। किं कुत्राऽपि गतवानस्ति, इति तत्पृच्छामाकर्ण्य लोकैरमाणि-भोः ! प्रभुस्तु भरतादिभ्यः सकलेभ्यो राज्यं दत्त्वा दीक्षामग्रहीत् । ततः पुनरेतौ पप्रच्छतुः-आवयो राज्यं किं कृतम् ? लोकैरूचे
स भगवान् इदानीं निष्परिग्रहतां दधानो जगत्पुनानो जीवान् परिबोधयन् महीमण्डले विहरति । किञ्च शतेभ्य आत्मपुत्रेभ्यो यदा राज्यं विततार, तदा युवाभ्यामपि राज्यं दत्तवान् भगवानित्यपि नैव विदाकुर्मो वयम् । साम्प्रतं तु भगवान् न कस्मै किमपि दातुंदापयितुं वा प्रभवति, न करेमीत्यादिशास्त्रप्रतिषेधात् । अतो युवामिदानी ज्यायांसं बान्धवं भरतम्प्रति गत्वा सर्व ब्रूताम् । तमेव याचेथाम् । तं विनाऽन्यः कर्तुं न शक्नोति । इत्यादिलोकोक्ति निशम्य ताभ्यामेवमुक्तम् !
भो लोका ! आवां तु पितरमेव याचेवहि, तदन्यं कदापि नेति सत्यं जानीत । यहि स प्रभू राज्यं दास्यति, तदैव ग्रहीष्याव आवाम् । इत्यवधार्य तौ द्वावपि भ्रातरौ यत्र भगवान् विचरन्नासीत् तत्र ययतुः । तत्र गत्वा प्रभु भक्त्या वन्दित्वा सविनयं तम्प्रति तौ राज्यं ययाचाते। भगवानपि तयोर्याचनं श्रुत्वा मौनं समाश्रितवान, तद्विषये मनागपि नोक्तवान, कुत्राप्यन्यत्र स प्रमुर्विजहार |
तावपि भ्रातरौ श्रीभगवता सहैव चेलतुः । अथ तावुभौ