________________
सूक्तमुक्तावली जिम विषभर जेणे डंक पीडा सहीने, विषधर जिनयीरे बूझव्यो ते वहीने
॥२॥ ये सत्पुरुषा दुःखानि सहमाना अपि परेषां दुःखं निराकुर्वते ते जनाः सदा सर्वेषां वन्दनीया विलसन्ति । यथा-वीरप्रभुश्चण्डकौशिकमहाहिदंशनवेदनां सहमानस्तस्मै प्रतिबोधमदात् । तत्प्रभावतः सोऽष्टमसहस्रारदेवलोकं प्राप्तवान् । एवं यः स्वयं दुःखीभवन्नपि परकीयक्लेशं वारयति हितञ्च करोति स एव धन्यो जगत्पूज्योऽस्ति ||२||
१-अथ परहितचिन्तकमहावीरस्वामिकूरात्मचण्डकौशिकयोः कथानकम्
तथाहि-चण्डकौशिकनामा फणी भवान्तरे साधुरभूत् । स चैकदा कनिष्ठशिष्येण सह गोचर्यं गतः। अग्रे गुरुः पृष्ठे च शिष्य इत्थं चलतस्तस्य गुरोः पादतलेन मर्दितो मण्डूको ममार | परं गुरुर्नाऽपश्यत्, शिष्यो दृष्टवान्, स तदा गुरुमवक्-स्वामिन् ! भवदघ्रिणा मर्दितो मण्डूको मृतः । तस्मादेतत्पापाऽपनोदनाय भवानीर्यापथिविधिं प्रतिक्रम्य तदालोचनं करोतु । गुरुणोक्तम्-गच्छ गच्छ मत्पादतले नैव कोऽपि दर्दुरो मर्दितः ।
. तदनु गोचरी लात्वा स्वस्थानमागतो गुरुस्तात्कालिकं गमनागमनमालोचितवान् । तदापि शिष्येण तस्मिन् स्मारिते गुरुरूचे-अरे! मुहुर्मुहुर्निष्फलं किं ब्रूषे ? मत्पादतले क्वापि किमपि नैव पीलितम् । तदा शिष्येणाऽचिन्ति-इदानीमनवकाशतो नाऽकारि, सायन्तनप्रति
191