________________
-: सादराञ्जलीगुरुस्तुतिः ::श्रीराजेन्द्रगुरुर्जनोपकृतिके लीनो ह्यभून्नौमि यं । राजेन्द्रेण कृतोऽतिधर्ममहिमा ध्यायन्ति यस्मै समे ॥ राजेन्द्रात्तु जनाः स्वधर्मनिरता यस्यैव निर्देशगा। राजेन्द्र गुरुसद्गुणास्तमभवन् तस्माद्भजन्तेऽखिलाः ॥१॥ सत्कीर्तिर्गुरुणार्जितातिविमला ज्ञानक्रियाभ्यां बुधाः! । सञ्जित्याखिलवादिनश्च समितौ विस्तारितः सज्जयः ॥ सच्छास्त्रैः स्वकृतैर्विदामुपकृतं राजेन्द्रकोशादिकै
श्चक्रे चैवमनेककार्यमवनौ राजेन्द्रसूरीधरः ॥२॥
1. सर्वे । 2. सभायाम् ।