SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २४ श्री विजयपद्मसूरिविरचितः समं चेतो यस्य प्रणयि धरणेन्द्रे च कमठे | महाद्वेषस्तोमाग्निविसर विदग्धेऽधमतमे || मनोऽभीष्टत्यागामरविटपितुल्यो जगति यः । स्तुवे तं वामेयं जितसुरतरुं भव्यचरणम् ॥ २ ॥ जगबंधुं दिव्यातिशयगण संपत्परिगतं । जगन्नाथं तीर्थाधिपतिममलानंदशरणं ॥ कृपासिंधु मेघध्वनिमम लचिद्रूपकलितं । स्तुवे तं वामेयं जितसुरतरुं भव्यचरणम् ॥ ३ ॥ ३४. ॥ श्री महावीरस्वामि चैत्यवन्दनम् ॥ ॥ स्रग्धरावृत्तम् ॥ यन्नामध्यानयोगाद्भविजननिलये जायते मंगलालिः । यस्यार्चा विघ्नकोटीविलयनकुशलाऽऽत्मीयसंपत्प्रदाना ॥ मेरौ जन्मक्षणे यो हरिसुरनिवहैः स्नापितो भक्तितो यः । स श्रीवीरप्रभुनः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ॥ १ ॥ श्रुत्वा यस्योपदेशं सपदि भविजनाः प्राप्तसन्मार्गबोधाः । देशाद्वा सर्वतः संयमममलममन्दोन्नतिं साधयित्वाऽ ॥ क्षेपात्संप्राप्नुवंति क्षपकततिबलात्साध्यसिद्धिं विशिष्टां । स श्री वीरप्रभुर्नः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ॥२॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy