________________
॥ ओ नमः श्री सिद्धचक्राय ॥ श्रीगुरुभ्यो नमः ॥ श्रुतयोग संपत्संपादक-परमोपकारिशिरोमणि-तपोगच्छाधिपति-आचार्य श्रीविजयनेमि सूरीश्वर चरण
किंकर विनेयाणु विजयपद्मसरि प्रणीतः ॥ "॥श्री स्तोत्रचिंतामणिः॥
१. ॥ मंगलाचरणम् ॥
( शार्दूलविक्रीडितवृत्तम् ) योऽर्व्यः शक्रफणीन्द्रकृष्णवरुणा_भूरिसंवत्सहा-। नाचार्याभयदेवदेदसुधियो यस्यानुभावात्क्रमाल । लेभाते गदविघ्नशांतिमतुलां श्रीहेमचंद्रप्रभुदीक्षास्थानविराजितं नीलरुचिं श्रीस्तंभनाधीश्वरम् ॥१॥ वाचं तीर्थकृतां समस्तसुगमां संशीतिसार्थापहां । स्थानाङ्गातिशयैर्महर्षिमुलभैश्च युतं पंचभिः॥ . स्वीयान्यागमतत्त्वबोधकमहातीर्थोदयाधायकं, संघस्तुत्यजगद्गुरुं मदधिपं श्रीनेमिसूरीश्वरम् ॥२॥ वंदित्वा रचयामि हृष्टहृदयो जैनेन्द्रस्तुत्यादिकैभर्भावैः संकलितं सदर्थललितं श्रीस्तोत्रचिंतामणिं ॥ प्राचीनानि बहूनि यद्यपि महास्तोत्राणि मुद्दानि मामस्मिन्प्रेरयति प्रमाणरहिता भक्तिस्तथापि प्रभोः॥३॥