________________
श्री विजयपद्मसूरिविरचितः
स्वभावसिद्धिलाभदो भवेशपाच ! सर्वदा, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥९॥
( शार्दूलविक्रीडित वृत्तम् )
॥प्रशस्तिश्लोकद्धयम् ॥ इत्थं गीतगुणावलिर्विजयते सेरीसकस्थप्रभुः, स्तोत्रं मंगलसिद्धिद्धिकरणं भव्याः पठन्तु प्रगे। पूज्यश्रीगुरुनेमिसरिचरणाम्भोजानुभावाद्वरे, धोलेराभिधबंदरे प्रविदिते प्राचीनतासुंदरे ॥१॥ नन्दद्वीपनिधीन्दुमानप्रमिते संवत्सरे वैक्रमे, धन्ये पावनमार्गशीर्षप्रथमाहन्येकभक्त्या मया । विज्ञप्त्या विजयोत्तरस्य शमिनोऽहद्भक्तवाचस्पतेः, ध्येयाहत्पदपद्मगणिना पार्थाष्टकं निर्मितम् ॥ २ ॥
__(युग्मम् )
॥ श्री शारदा लघुस्तोत्रम् ॥
(आर्याच्छन्दः) सदतिशयान्वितरूपा, जिनपतिवदनाब्जवासिनी रम्या॥ नयभंगमानभावा, प्रभुवाणी बोधदा वोऽस्तु ॥१॥ तदधिष्टायकभावं, प्राप्ता श्रीशारदा चतुष्पाणिः ॥ श्रीगौतमपदभक्ता विज्ञानोत्कर्षदा भवतु ॥२॥