________________
वैयाकरणसिद्धान्तकौमुद्याः
उत्तरार्धे
कृदन्ते कृत्यप्रकरणम् ॥ ६५ ॥ २८२६ धातोः । (३-१-६१) मा तृतीयसमातेरधिकारोऽयम् ।
अथ कृदन्तप्रक्रिया निरूप्यन्ते । तदेवं 'प्रत्यया अथ कथ्यन्ते तृतीयाध्याय. गोचराः' इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययेषु प्रथमपादे 'प्रत्ययः, परश्च' इत्या. रभ्य 'कुषिरोः प्राचां श्यन्-' इत्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः । अथ तदुत्तरसूत्रविहितान् निरूपयितुमुपक्रमते धातोः। प्रा तृतीयेति । श्रा
समस्तजगतामोशौ जगदानन्दकारको ।
जगतीजनको वन्दे पार्वतीपरमेश्वरौ ॥ 'कृदतिङ्' इति तिभिन्न प्रत्ययस्य कृत्संज्ञाकरणात् कृतां तिज्ञानाधीनज्ञानत्वात्तिनिरूपणानन्तरमेव कृता निरूपणमुचितमिति तिको निरूप्य कृतो निरूपयितुमाह धातोरिति । ननु तिनिरूपणात्प्रागेव 'स्पृशोऽनुदके किन' 'ऋत्विग्दधृग्-' इत्यादिना किन्नादिनिरूपणं कृतमिति कथमियं भवदुक्तसंगतिः संगच्छत इति चेत् । अत्राहुः-किनादिनिरूपणस्य तत्र प्रासङ्गिकत्वात् , प्राधान्येन च कृतामत्रैव निरूपणालोकशक्कावकाश इति । यद्यपि 'धातोरेकाचो हलादेः-' इति सूत्राद्धातोरित्यनुवर्तत एव तथापि आर्धधातुकसंज्ञाया आश्रितशब्दव्यापारत्वलाभाय पुनर्धातोरिति प्रहणं कृतम्। अन्यथा 'आर्धधातुकं शेषः' इत्यनेन तिशिद्भिन्नस्य धातोर्विहित. प्रत्ययमात्रस्यार्धधातुकसंज्ञायां लूभ्यो पूभ्यामित्यादाविड्गुणौ स्यातां धातोर्विहितत्वेन भ्यामादेरार्धधातुकत्वात् , पुनर्धातुग्रहणे कृते तु तव्यत्तव्यादय इव धातोरित्येवमविधानाद् भ्यामादेरार्धधातुकत्वं नेति दिक् । 'प्राग्लादेशाद्धात्वधिकारः' इति पक्षोऽ. युक्त इत्याशयेनाह आ तृतीयसमातेरिति । तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः । प्राग्लादेशादिति पक्षे तु तिशित्सार्वधातुकम्' इत्यत्र धातोरित्यधिकाराभावात् शित्प्रत्ययमात्रस्य सार्वधातुकत्वेन शसोऽपि सार्वधातुकल्ले 'सार्वधातुकमपित्' इति ब्त्वेि च हरीनित्यादौ 'धेर्विति' इति गुणः स्यादिति ज्ञेयम् । स्यादेतत्-धातोर्लकारे सति