________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५ २१५२ लः कर्मणि च भावे चाकर्मकेभ्यः । (३-४-६६) लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च । २१५३ वाच्यम् । लिडादिवलक्षण्याय तस्यावश्यकत्वात् । तथा च तस्य इत्संज्ञा विना निवृत्त्युपायाभावाद् इत्संज्ञैवादर्तव्येति भावः । लः कर्मणि च । वाक्यद्वयमिदं सूत्रम् । 'लः कर्मणि च-' इति प्रथमं वाक्यम् । ल इति प्रथमाबहुवचनान्तम् । चकारेण 'कर्तरि कृत्' इत्यतः 'कर्तरि' इत्यनुकृष्यते । 'धातोः' इत्यधिकृतम् । लकाराः कर्मणि कर्तरि च धातोः स्युरिति लभ्यते । सकर्मकधातुविषयमेवेदम् । अकर्मकेषु कर्मणीत्यस्य बाधितत्वात् । तदाह लकाराः सकर्मकेभ्यो (धातभ्यः) कर्मणि कर्तरिच स्युरिति । एवं च सकर्मकेभ्यो भावे लकारा न भवन्ति । सकर्मकेभ्योऽपि भावलकारप्रवृत्तौ तु देवदत्तेन घटं क्रियत इत्यादी भावलकारेण कर्मणोऽनभिहितत्वाद् द्वितीया स्यादिति भावः । 'भावे चाकर्मकेभ्यः' इति द्वितीयं वाक्यम् । अत्रापि चकारेण कतैवानुकृष्यते। न तु कर्म, असंभवात् । तदाह अकर्मकेभ्योभावे कर्तरि चेति । अत्राकर्मकग्रहणेन अविवक्षितकर्मका अपि गृह्यन्ते । तेन देवदत्तेन भुज्यत इत्यत्र सतोऽप्योदनरूपकर्मणः अविवक्षायां भावे लकारोऽस्त्येवेत्यन्यत्र विस्तरः। विति । अकार उच्चारणार्थ इति तु नोक्कम् , लिडादिवैलक्षण्यसम्पादनाय तस्यावश्यवक्तव्यत्वात् । लः कर्मणि च । चकारात् 'कर्तरि कृत्' इत्यतः कर्तरीत्यनुकृष्यते, सकर्मकविषयं चेदम् । अकर्मकेषु कर्मणीत्यंशस्य बाधितत्वात् , भावे चेत्युत्तरवाक्येन तत्र विशेषविधानाच तदेतदाह सकर्मकेभ्य इति । भावे चेति । चकारेण कतैवानुकृष्यते न तु कर्म, असम्भवात्तदाह भावे कर्तरि चेति । ननु भावकर्मणोरात्मनेपदविधानात् 'शेषात्कर्तरि-' इति परस्मैपदविधानाच्च ज्ञापकाल्लकाराणां भावकर्मकारोऽर्था अनुमातुं शक्यन्त इति किमनेन सूत्रेण । मैवम् , असत्यस्मिन्सूत्रे सकर्मकेभ्योऽपि घयादिवद्भावे लकारापत्तो घटं क्रियते देवदत्तेनेत्यादिप्रयोगः प्रसज्येत, तन्माभूदित्येतदर्थमेतत्सूत्रस्यावश्यकत्वात् । न चैवम् 'अकर्मकेभ्यो भावे लः' इत्येव सूत्र्यताम् , भावे अकर्मकेभ्य एवेति नियमार्थमिति वाच्यम् , अकमकेभ्यो भाव एवेति विपरीतनियमापत्त्या कर्तरि तेभ्यो लकारानापत्तेः। तस्माद्भावे चेति चकार आवश्यकः । न चैवं 'भावे चाकर्मकेभ्यः' इत्येवास्त्विति वाच्यम् , भावे इव कर्तर्यप्यकर्मकेभ्य एवेति नियमापत्तौ सकर्मकेभ्यो भाव इव कर्तर्यपि लकारानापत्तेः । नन्वेवमपि 'लश्च भावे चाकर्मकेभ्यः' इत्येवास्तु चकारेण कर्तरीत्यनुकर्षणाल्लकाराः सकर्मकेभ्यः कर्तरि स्युरकमकेभ्यो भावे कर्तरि च स्युरित्यर्थे पर्यवसिते कर्मणि तूकशापकाद्भविष्यन्तीति किमनेन कर्मणीत्यनेनेति चेत् । मैवम् , उत्तरसूत्रे तयोरित्यनेन कर्मणोऽपि परामाथि