________________
वैयाकरणसिद्धान्तकौमुद्याः
उत्तरार्धम्।
श्रौत्रान्तिीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् । तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम् ॥ १॥ अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये। किंचास्तु पतञ्जलये भ्रात्रे विश्वेश्वराय गुरवे च ॥१॥ व्याख्याता बहुभिः प्रोढरेषा सिद्धान्तकौमुदी।
वासुदेवस्तु तयाख्यां वष्टि बालमनोरमाम् ॥ २॥
ॐ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रयन्ते, वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च मङ्गलयुक्ताः स्युरिति भाष्यप्रमाणकं प्रन्थ. मध्ये विघ्नविघातादिप्रयोजनाय कृतं मजलं शिष्यशिक्षायै ग्रन्थतो निबधाति श्रौत्रेति । वेदाध्येता श्रोत्रियः । 'श्रोत्रियंश्छन्दोऽधीते' इति वेदपर्यायात् छन्दश्शब्दाद् द्वितीयान्तादधीत इत्यर्थे घन्प्रत्ययः । प्रकृतेः श्रोत्रादेशश्च निपातितः। श्रोत्रियस्य भावः श्रौत्रम् । श्रोत्रियस्य यलोपश्चेत्यणि इकारादुत्तरस्य यकाराकारसंघातस्य लोपे इकारस्य 'यस्येति च' इति लोपः । अर्हति आयैः प्रशस्यमानेषु वेदविहितकर्मसु योग्यो भक्ती. त्यर्हन् । 'अर्हः प्रशंसायाम्' इति शतृप्रत्ययः । अर्हतो भाव पार्हन्ती । 'अर्हतो नुम् च' इति ध्यनि आदिवृद्धौ प्रकृतेर्नुमागमे षित्त्वान्डीषि 'हलस्तद्धितस्य' इति यकारलोपे 'यस्येति च' इत्यकारलोपः। स्त्रीत्वं लोकात् । श्रौत्रं च आर्हन्ती च श्रौत्रार्हन्यौ ।
अज्ञाननाशने दक्ष दीक्षितं भक्तरक्षणे ।
वटमूलाश्रयं व्यक्षं दक्षिणामूर्तिमाश्रये ॥१॥ . ग्रन्थमध्ये विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षार्थ निबध्नाति श्रौत्रेत्यादिना। श्रोत्रियस्य भावः श्रौत्रम् । 'हायनान्तयुवादिभ्योऽण्' इति सूत्रे 'श्रोत्रियस्य यलोपश्च' इति वार्तिकाद्यलोपे अण्प्रत्यये च 'यस्येति च' इतीकारलोपः । अर्हतो भाव पार्हन्ती। 'गुणवचनब्राह्मणादिभ्यः-' इति सूत्रे 'अहंतो नुम् च' इत्युक्तेर्नुम् व्यञ् च । षित्त्वाद्
१ 'शब्दब्रह्मात्मने च धूर्जटये' इति पाठः क।