________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता।
[७
मपि नामेति तुल्यम् । ततश्चात्रप्रशस्तपाककर्ता देवदत्त इत्याधभेदान्वयो भवद्भिरभ्युपगन्तव्य इति तिक्ष्वपि कर्तुर्वाच्यता खीकर्तव्येव । किं च कर्तुर्वाच्यत्वानभ्युपगमे 'युष्मदि समानाधिकरणे मध्यमः' 'अस्मद्युत्तमः' इति सामानाधिकरण्यप्रयुक्ता पुरुषव्यवस्था 'अभिहिते कर्तरि प्रथमा' इत्यादिकं च भवन्मते कथं संगच्छताम् । यत्तु अनभिहित इत्यस्यानभिहितसंख्याक इत्यर्थवर्णनेन 'देवदत्तः पचत्योदनम् , श्रोदनः पच्यते देवदत्तेन' इत्यादौ प्रथमाद्वितीयादिव्यवस्थापनमुक्तम् । तन्न, कृत्तद्धितसमासेषु संख्याभिधानस्याप्रसिद्धत्वात् । ततश्च पक्तव्यस्तण्डुलः, शल्यः शतिकोऽश्वः, प्राप्तोदको ग्रामः, इत्यादिषु 'कर्मणि द्वितीया' इत्यस्य प्रवृत्तौ प्रथमा न स्यात् । न च तिष्ठतीत्यध्याहारेण संख्याभिधानमिहाप्यस्तीति वाच्यम् , स्थित इत्याद्यध्याहारे तदभावात् । शाब्दिकोऽयं देवदत्तो न तु नैयायिक इत्यादिषु नीलमिदं न तु रक्तमित्यत्रेव क्रियापदाध्याहारस्यानावश्यकतया आख्यातेन ‘शब्ददईरं करोति' इति ठक्प्रत्ययेन वा कर्तृसंख्याया अनुक्लत्वाद्देवदत्ते कर्तरि तृतीयोत्पत्तिप्रसङ्गाच्च । तस्मादनभिहिते कर्तरीत्यादिव्याख्यानमेवाभ्युपेतव्यम् । अपि च धातूपात्तव्यापाराश्रयः कर्ता, तत्राश्रयमात्रं कृता लकाराणां चार्थः, न तु व्यापारोऽपि, तस्य धातुनैव लब्धत्वात् । अत एव कर्ता कारक इत्यादौ प्रकृतिप्रत्ययार्थयो नन्वयः, व्यापाराश्रयस्य प्रत्ययार्थत्वे तु तस्य प्रकृत्यर्थेन व्यापारेणान्वयः क्लिष्टः स्यात् । यस्तु वदति-'कृधातोः' कृतिरर्थः, कृत्प्रत्ययस्यापि कृतावेव शक्तिर्न तु कर्तरि । 'कर्तरि कृत्' इत्यत्र हि कर्तरीति भाव. प्रधानो निर्देशः । कर्तृत्वं कृतिमत्त्वम् । तच्च कृतिरेव । यत्र तु देवदत्तादिपदसमभि. व्याहारस्तत्र तृजादौ कृतिमति लक्षणेत्यादि, तन्मते पूर्वोक्तकर्तेत्यादौ सुतरामनन्वयः। 'कर्मवत्कर्मणा-' इति सूत्रे करोतिरुत्पादनार्थः, उत्पत्तिश्च कर्मस्था, यत्नार्थकत्वे तु करिष्यते घट इत्यादि न सिध्येदिति वक्ष्यमाणदूषणं च दुरुद्धरम् । आश्रयमात्रस्य प्रत्ययार्थत्वे तु रथो गच्छतीत्यत्र रथस्याचेतनस्य यत्नाभावेऽपि गमनानुकूलचकभ्रमणादिव्यापाराश्रयत्वान्न काचिदनुपपत्तिः । एवं स्थिते कृतौ शक्तिरित्यस्योक्तिसंभव एव नास्ति, कृतेरपि व्यापारविशेषतया प्रायेण धातुत एव लाभात् , जानातील्यादावाश्रयत्वं प्रत्ययस्यार्थ इति स्वीकृत्य यत्नार्थत्वस्य त्वयाऽपि वक्तव्यत्वात् । न हि यत्नमन्तरेण ज्ञानं नोदेतीति कश्चिदभ्युपैति । तस्मात्कृता तिनं च वैलक्षण्यं दुर्लभमिति कर्थकत्वमभ्युपेयम् । एतेन कब्रधिकरणे आख्यातवाच्यत्वं कर्तुनिरस्य जअभ्यमानाधिकरणे यङन्ताद्विहितस्य जञ्जभ्यमान इति शानचः कर्तृवाचकत्वं स्वीकुर्वन्तो मीमांसका अपि प्रत्युक्ताः। यत्तु तैरुक्तं शानजंश 'कर्तरि कृत्' इति व्याकरणं शक्तिप्राहकमस्तीति । तन्न, कृद्वाक्यशेषो ह्ययमकाङ्क्षायामनिर्दिष्टार्थेषु ण्वुलादिष्वेवोपतिष्ठते 'आकाति