________________
व्याकरणप्रश्नाः
४२१
६-सर्पिषो जानीते, पञ्चगवधनः, कल्याणीपञ्चमा रात्रयः, त्वक्स्रजम् , रैवतिक, अस्मदीयः, श्रेयान् , एनी, वृषली, एतेषां पञ्चानामेव साधु साधनं लिखत ।
१९५७ १–क, प, ऋ, वर्णानां स्थानानि प्रयत्नांश्च विलिख्य, 'अणुदित्सवर्णस्य चाप्रत्ययः' इति
सूत्रस्य अर्थ उदाहरणञ्च लिखत । २- सुखार्तः, विष्णो इति, उत्थानम् , शिवच्छाया, शिवो वन्यः, इमान् संसाध्य डमो
ह्रस्वादचि ङमुद्द नित्यम्' इति सूत्रस्योदाहरणं अर्थ च प्रदर्शयत । ३-रामान् , निर्जरसौ, बहुश्रेयस्याम् , स्त्रीः, श्रीपम् , मघोनः, युष्मत् , पिपठीः, इयम् ,
तुदन्तौ, अमीषु, पंच प्रयोगाः ससूत्रं साधनीयाः । ४-अभूवन् , अकटीत् , हरिष्यति, एधिषत, वर्तिष्यते, जहि, अहित, नेशिथ, अशिचत् ,
कुर्यात् , ग्रहीता, अजीगणत् , एषु चतुरः प्रयोगान् साधयत । ५-अबीभवत् , चिकीर्षति, राजानति, सर्पिषो जानीते, विरमति, जायते, इह भुनीत,
विशेषसूत्रनिर्देशसहितं चतुरः प्रयोगान् साधयत। ६-सुशर्मा, सह कृत्वा, क्षामः, सुपानः, हरये नमः, उपराजम् , घनश्यामः, महाराजः,
त्रिमूर्धः, गवाक्षः, एतेषु पञ्च प्रयोगान् तत्तद्विशेषसूत्रनिर्देशपुरत्सरं साधयत । ७-वैनतेयः, पित्र्यम् , तावकीनः, औपगवः, दन्त्यम् , भूयिष्ठः, औत्सी, रुद्राणी, दाक्षी,
एषु पञ्चैव साध्याः।
१६५८
१-तुल्यास्यप्रयत्नं सवर्णम् , परः संनिकर्षः संहिता, इति सूत्रद्वयस्य अर्थों विलिख्य
आभ्यन्तरप्रयत्नस्य भेदान् लिखत । २–प्रष्ठौहः, अमी ईशाः, सन्त्सः, इमान् सूत्रनिर्देशपूर्वकं संसाध्य 'विप्रतिषेधे परं कार्यम्'
इति सूत्रस्य अर्थ प्रदर्शयत । ३-सर्वेषाम् , सख्युः, गाः, मत्यै, दध्ना, अनड्वान् , विश्वाराट् , अमी, अद्भिः, धनूंषि,
एषु पञ्चानां साधुत्वं विधाय युष्मद् शब्दस्य द्वितीयायां रूपाणि लिखत । ४-भवतात् , अगादीत् , अपुः, अचीकमत् , अभृत, इयाय, और्णावीत् नेनिजानि,
चिकाय, शीयते, आञ्जीत, सभान, कथयति, एतेषु पंचैव समाधेयाः।