SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६४ लघुसिद्धान्तकौमुद्याम् उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । ' अतिमालः । (अवादयः क्रुष्टाद्यर्थे तृतीयया) अवक्रष्टः कोकिलयाअवकोकिलः। (पर्यादयो ग्लानाद्यर्थ चतुर्थ्या) परिग्लानोऽध्ययनायपर्यध्ययनः (निरादयः क्रान्ताद्यर्थे पञ्चम्या ) निष्कान्तः कौशाम्ब्याःनिष्कौशाम्बिः। ६५३ तत्रोपपद सप्तमीस्थम् ३ । १ । १२ । सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थितं यत कुम्भादि तद्वाच कं पदमुपपदसंज्ञं स्यात्।। ६५४ उपपदमतिङ् २ । २ । १६ । उपपदं सुबन्तं समर्थेन नित्यं समस्यते, अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः। अतिङ् किम्-मा भवान् भृत, माङि लुङिति सप्तमीनिर्देशान्माकुपपदम् । ' गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः । "व्याघ्री। अश्वक्रीती। कच्छपीत्यादि। १-अतिमालः -- 'माला+प्राम प्रति' इत्यलौकिकविग्रहे 'अत्यादयः क्रान्ताद्यथ द्वितीयया' इति वात्तिकेन समासे 'अति' इत्यस्योपसर्जनसंज्ञा पूर्वनिपाते सुब्लुकि 'एकविभक्ति चापूर्वनिपाते' इति मालेत्यस्योपसर्जनत्वे 'गोस्त्रियोरुपसर्जनस्य'ति हस्वे समुदितात् सौ विभक्तिकार्गे सिध्यति रूपम् 'प्रतिमालः' इति । २-कौशाम्बी = नगरी विशेषः । ३-कुम्भकारः-'कुम्भं करोति' इत्यर्थे कर्मण्यणि वृद्धो 'कुम्भ + अस कार' इति पष्टयन्तेनालौकिकविग्रहे तत्रोपपदं सप्तमीस्थम्' इति कुम्भशब्दस्योपपदसंज्ञायाम 'उपपदमति' इति समासे प्रातिपदिकत्वात् सौ रुत्वे विसर्ग 'कुम्भकारः' इति सिध्यति । ४-इयं परिभाषा । ५-व्याजिघ्रतीति व्याघ्री-पातश्वोपसर्गे' इति कप्रत्ययः । व्याङः (सुबुत्पत्तेः प्राक) प्रशब्देन गतिसमासः, ततः स्त्रियां जातिलक्षणो ङीष् । अन्यथा न स्यात्; ( सुबन्तेर समासे तु) केवलस्य 'ब्र' शब्दस्य जातिवाचकत्वाऽभावात् जातिलक्षणों, ङीष न स्यात्; किन्तु टाप् स्यात् । ६-प्रश्वेन क्रोता, इति विग्रहः, 'क्रीतात्करणपूर्वात्' इति ङीष् । अत्रापि सुबुत्पत्तेः प्रागेव समासः । सुबन्तेन समासे तु टप् स्यात; नतु ङीष् । ७-कच्छेन पिबतीति कच्छपी, 'कः' प्रत्ययः जातिलक्षणो डोष, व्याघ्रीवत् । ६५३-सातम्यन्त पद 'कर्मणि' इत्यादि में वाच्य रूप से स्थित कुम्भादि पद की उपपद संज्ञा होती है। ६५४---उपपद सुबन्त का समर्थ के साथ नित्य समास होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy