________________
२६२
लघुसिद्धान्तकौमुद्याम् ६४४ विशेषणं विशेष्येण बहुलम् २ । १ । ५७ ।
भेदकं भेद्य न समानाधिकरणेन बहुलं प्राग्वन् । नीलमुत्पलं नीलोत्पलम् बहुलग्रहणात् क्वचिन्नित्यम् । कृष्णसर्पः । क्वचिन्न-रामो जामदग्न्यः।
६४५ उपमानानि 'सामान्यवचनैः २ । १ । ५५ ।
घन इव श्यामो घनश्यामः । शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् । शाक्रप्रियः पार्थिवः = शाकपाथिवः । देवपूजको ब्राह्मणो देवव्राह्मणः ।
६४६ नञ् २ । २ । ६ । न सुपा सह समस्यते। ६४७ नलोपो नत्रः ६।३।७३ ।
नञो नस्य लोप उत्तरपदे । न ब्राह्मणः अब्राह्मणः । 'टच' प्रत्ययेऽनुबन्धलोपेऽवादेशे संख्यापूर्वत्वाद् द्विगुसंज्ञायां "द्विगुरेकवचनम्' इत्येकबद्भावे ‘स नपुंसकम्' इति नपुसकत्वे सोरमि पूर्वरूपे 'पञ्चगवम्' इति रूपम् ।
१-उपमानवाचकानि समानधर्मवाचकैः समस्यन्ते, इत्यर्थः । २-इवशब्दोपादानं स्पष्टप्रतिपत्त्यर्थम् । ३-घनश्यामः- 'घन इव श्यामः' इति विग्रहः । 'घन+सु श्याम + सु' इत्यत्र 'उपमानानि सामान्यवचनैः' इति समासे प्रातिपदिकत्वात् सुपो लुकि समु. दायात् पुनः सौ रुत्वे विसर्गे सिध्यति रूपं 'घनश्यामः' इति । ( मेघवत् श्याम इत्यर्थः)। ४-देवब्राह्मणः-'देवपूजक + सु ब्राह्मण+सु' इति स्थितौ 'विशेषणं विशेष्येण बहुलम्' इति समासे प्रातिपदिकत्वात् सुपो लुकि शाकपार्थिवादित्पादुत्तरपदलोपे समुदायात् सौ रुत्वे विसर्गे च 'देवब्राह्मणः' इति रूपम् । __१४४-भेदक (विशेषण ) समानाधिकरण भेद्य (विशेष्य ) के साथ बाहुल्य से समस्त होता है।
६४५-उपमानवाचक शब्दों का समान धर्मवाचक शब्दों के साथ समास होता है। (वा. शाकपाथिवादि की सिद्धि के लिये उत्तरपद का लोप होता है)।
६४६-'न' समर्थ सुबन्त के साथ समस्त होता है विकल्प से । ६४७-नञ् के न का लोप होता है उत्तरपद परे रहते ।