________________
૨૧૪
लघुसिद्धान्तकौमुद्याम् एकदेवविकृतस्यानन्यत्वात् प्रातिपदिकसंज्ञायां स्वाधुतात्तिः । (३७१) अव्ययीभावश्चेत्यव्ययत्वात् सुपो लुक् । अधिहरि ।
६११ अव्ययीभावश्च २ । ४ । १८ । अयं नपुंसकं स्यात् । ६१२ नाव्ययीभावादयोऽम्त्वपञ्चम्याः २ । ४ । ८३ ।
अदन्तादव्ययीभावात् सुपो न लुक् तस्य पञ्चमी विना श्रमादेशः स्यात् गाः पातीति गोपास्तस्मिन्नित्यधिगोपम् ।
६१३ तृतीयासप्तम्योबहुलम् २ । ४ । ८४ ।
अदन्तादव्ययीभवात्तुतीयासप्तम्योर्वहुलमम्भावः स्यात् । कृष्णस्य समीपम् उपकृष्णम्. उपकृष्णेन । मद्राणां समृद्धिः-सुमद्रम् यवनानां व्यद्धिर्दुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययाऽतिहिमम् । निद्रा संप्रति न युज्यते-इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इतिहरि । विष्णोः पश्चादनुविष्णु। योग्यतावीप्सा-पदार्थानतिवृत्ति-सादृश्यानि "यथार्थाः। रूपस्य
१-सुविशिष्टस्यैव समासत्वेन प्रातिपदिकसंज्ञाविधानात् लुका सुपो लुप्तत्वेन कथमत्र प्रातिपदिकत्वं ततः सुबुत्पत्तिश्च, प्रत माह- एकदेशेति । २-'अव्ययादाप्सुपः' इति सूत्रेण । ३-अधिगोपम्-'गाः पातीति गोपास्तस्मिन्नहि गोपम्' । अलौकिकविग्रहे ‘गोपा ङि अधि' इति स्थिते 'अव्ययं विभक्ति ' इत्यादिना समासे कृते 'अधि' इत्यस्य 'प्रथमानिद्दिष्टं समास 'उपसर्जनम्' इत्युपसर्जनसंज्ञायाम 'उपसर्जनं पूर्वम' इति पूर्वनिपाते समासत्वेन प्रातिपदिकत्वात् सुब्लुकि 'अव्ययीभावश्च' इति नपुसकत्वे 'ह्रस्वो नपुसके प्रातिपदिकस्य' इति ह्रस्वे सौ अव्ययत्वेन संकि प्राप्ते 'नाव्ययीमावादम 'इत्यादिना सोरमादेशे 'अधिगोपम ' इति रूपम । ४- उपकृष्णम्-'कृष्ण+ ङस उप'इत्यलौकिकविग्रहे 'अव्ययं विभक्ति'-इत्यादिना समासे उपसर्जनसंज्ञायां पूर्वनिपाते समासत्वात् प्रातिपदिकत्वेन सुपो लुकि 'उपकृष्ण' इत्यस्मात् 'टा' विभक्तौ तृतीयासप्तम्योबहुलम्' इत्यमादेशे 'उपकृष्णम' इति रूपम् । ५--'यथा' शब्दस्यार्था इत्यर्थः ।
६११-अव्ययीभाव समास नपुसकलिङ्ग में होता है ।
६१२-अदन्त अव्ययोभाव से परे सुप् का लुक नहीं होता, किन्तु उसको अमादेश हो जाता है पञ्चमी विभक्ति को छोड़ कर ।
६१३-अदन्त अव्ययीभाव से तृतीया और सप्तमी को बहुलता से अन्भाव होता है।