________________
८४
श्रीमुनिसुन्दरसूरिविरचितः ।
शत्रुञ्जयाह्वं तदनादितीर्थम् ॥ ८ ॥
चिरादवाह्यं सुवहश्ञ्चकार कैवल्य मार्ग प्रथमं परं या ।
विश्वत्रयात्यद्भुतपुत्रऋच्या
द्विधा महानन्दसुखं प्रपन्ना ॥ ९ ॥
शक्तिं परां तां परमात्मरूपामरूपिणीं विष्टपकल्पवल्लीम् । अम्बां त्रिलोक्या मरुदेविनाम्नीं युगादिनेतुर्जननीं प्रणौमि ॥ १० ॥ ॥ युग्मम् ॥
अधर्म्म कालोरुनिदाघतापितं जगत्सुखाकर्तुमिहोत्तरोन्नतिः ।
ववर्ष तत्त्वामृतपूरमादिमं दयाम्बुधेरम्बुदवज्जगत्पतिः ॥ ११ ॥
कृत्वा कृतार्थानि जगन्ति यो विभुत्या पुमर्थत्रितयस्य शिक्षणात् ।