________________
श्रीजिनस्तोत्ररत्रकोशः। च्छिवाय लेशोऽपि च सक्रियायाः॥ ४ ॥ पुराणमीशं परमार्थदेशकं
परात्मरूपं परमेष्ठिनां परम् । युगादिदेवं विमलाचले स्तुवन्
भवेत्रिलोक्याः स्तवनीयतापदम् ॥ ५ ॥ अनाद्यनन्तं मुनिभिः पुरातनै
मितिव्यतीतैरभितः पवित्रितम् । यदेव तीर्थ भरतोत्तमं परं
शक्राय सीमन्धरतीर्थकृज्जगौ ॥६॥ सङ्घाऽधिपत्यं विधिवत्प्रपद्य
यस्मिन् युगादीशजिनं सुभावात् । प्रणम्य भव्यो जिननायकला
वधिप्रतिष्ठां लभते कृतार्थः ॥ ७ ॥ असङ्ख्यतीर्थेश्वरपादपूतं
सिद्धेः पथं मङ्गललक्ष्मिसद्म। समग्रपापक्षयकृत्प्रणौमि