________________
भी जिनस्तोत्ररत्रकोशः ।
यो वेदार्थविचारणायुधगणैर्हला गणेशोल्लसन्मानप्रोन्नतचित्त दुर्गनिवहे संदेहशत्रून् स्थितान् । प्रागेव प्रहतस्य मोहनृपतेर्मल्लानिव प्रोन्मदान् स्वान् सद्बोधनृपान् न्यवीविशदयं वः पातु वीरप्रभुः॥२५॥ एवं निर्णिक्तभक्त्या भरतभुवि चतुर्विंशतिर्वर्त्तमानाः संसारक्लेशभीतत्रिभुवनजनतात्राणदुर्गोपमानाः । नूता मुग्धस्तवेन त्रिदशपतिनुतास्तीर्थराजा ददन्तां तां शुद्धां बोधिलक्ष्मीं लसति मयि यतः केवलानन्दलीला २६ एवं यो मतिमान् स्तुते जिनवरान् भक्त्या चतुर्विंशतिं शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमाम्भोरुहान् । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽद्वयो
८१
मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम्॥२७॥ इति युगमधानावतारवृहत्तपागच्छाधिराज श्रीदेवसुन्दर सूरिश्री ज्ञानसागरसूरि श्री सोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दर सूरिभिर्विरचिते जयश्यते श्री जिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे चतुर्विंशतिश्रीजिनाशीर्वादरूपं स्तोत्ररत्नं प्रथमम् ।