SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीजिनस्तोत्ररत्नकोशः। ७९ चिरस्य पीतेन्दुसुधानुवाद संवीक्षितुं यद्वचनामृतेन । सुधारुचेर्लक्ष्ममृगोऽङ्कदम्भा यं सेवते, शान्तिरयं शिवाय ॥ १७ ॥ यः सूरजातोऽपि हि जीवमैत्र्यभार मेषाश्रितोऽप्याश्रयते महोच्चताम् । श्रीनन्दनश्चाप्यकरोद्भवक्षवं स कुन्थुनाथः पृथुसंपदे सताम् ॥ १८ ॥ ध्वस्ताज्ञानभरः स्मरज्वरहरः सर्वेष्टसौख्याकरः क्षीणाशेषदरः क्रमानतनरप्रेयःशिवश्रीकरः । ब्रह्माद्वैतधरः समाश्रितपरत्रैलोक्यरक्षाऽऽदरः कुर्यात् श्रीमदरः सतां गुरुतरश्रेयांसि तीर्थङ्करः ॥१९॥ मल्लिज्जिनो ऽसौ श्रियमातनोतु श्रितः पदौ यस्य घटः सुराणाम् । अङ्क मिषन् सर्वमनोव्यतीत प्रदानशक्तिं किल याचमानः ॥२०॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy