________________
५२
श्रीजिनमुन्दरसूरिविरचितं
॥ अहम् ॥ जयश्रियां हेतुरमर्त्यपूजित ___ प्रज्ञातविज्ञेय वरेण्य वाङ्मय । जगद्गुरुर्गेयगुणौघगौरवः
सर्वज्ञ सर्वज्ञनमस्कृतक्रम ॥१॥ विनाग्निमेघ त्वममोघसंयमः
कृतार्थशक्तिः प्रकृतद्विषत्क्षयः। मिस्सीमसाम्यः श्रितशीलसङ्गति
लोकंपृणस्तीर्णतमोमहार्णवः ॥ २॥ चैत्यगुदिन्यध्वनिदेवदुन्दुभि___च्छत्रत्रयीचामरपुष्पवर्षणैः। भामण्डलस्वर्णमयाऽसनान्वितैः __ श्रीप्रातिहार्यैर्जयराजितो जिनः ॥ ३ ॥ अनावृतज्ञानविशालदर्शनः
प्रकीर्णपुण्यश्रयणीयशासनः। धामन् महिम्नां महतां त्वमहतो