SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ साधारणजिनस्तवः। यं दातुमीशाः सुरमेदिनीरहो न कामकुम्भा नु न कामधेनवः। तस्योपलम्भे प्रतिमूर्भवन् भवान् शुभोदयस्यास्ति विभो तदुत्तमः ॥ ५॥ जिन त्वदालोकनवन्दनोद्भवं सुखं महत् स्वर्गसमृद्धिभोगतः । मन्ये यतोऽमी तदतुच्छवाञ्च्छया सुधाभुजोऽपि त्वदुपान्तमे(ए)यति ॥ ६ ॥ निरत्यया सा सुकृतस्य संहति र्जगत्पते स्फातिमियते॒ मेऽन्वहम् । प्रभुर्ययाऽनन्तगुणात्मवान् भवान् विश्वकबन्धुर्भगवन्नवाप्यते ॥ ७ ॥ इति स्तुतस्तीर्थपते प्रमोदतः प्रसीद सद्यो जगदेकवत्सलः । तथा यथा मे सकलर्द्धिसिद्धिदा भवत्पदाम्भोरुहभृङ्गता भवेत् ॥८॥ इति साधारणजिनस्तकः श्रीजिनमुन्दरमरिकृतः ॥ RAM
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy