________________
श्रीजिनस्तुतयः ।
॥ अर्हम् ॥ कमलवल्लुपनं तव राजते जिनपते भुवनेश शिवात्मज । मुकुरवद्विमलं क्षणदावशात् हृदयनायकवत् सुमनोहरम् १ ॥ सकलपारगताः प्रभवन्तु मे शित्रसुखाय कुकर्म्मविदारकाः । रुचिरमङ्गलवल्लिवने घनाः दशतुरङ्गमगौरयशोधराः ॥२॥ मदनमान जरानिधनोज्झिता जिनपते तव वागमृतोपमा । भवभृतां भवतांच्छिवशर्मणे भवपयोधिपतज्जनतारका ॥ ३ ॥ जिनपपादपयोरुहहंसिका दिशतु शासननिर्जरकामिनी । सकलदेहभृताममलं सुखं मुखविभाभरनिर्जितभाधिपा ॥४॥ इति नेमिजिनस्तुतयः ॥ ५ ॥
३०
॥ अर्हम् ॥
ज्ञात्वा प्रश्नं तदर्थे गणधरमनसं प्राग्वदेद्वीरदेव अर्हत्सिद्धार्यसाधुप्रभृतिनवपदान् सिद्धचक्रस्वरूपान् । ये भव्याश्रित्य धिष्णं प्रतिदिनमधिकं संजपन्ते स्वभक्त्या ते स्युः श्रीपालवच्च क्षितिवरपतयः सिद्धचक्रप्रसादात्॥ १ ॥