________________
२९
श्रीजिनस्तुतयः । भवजलनिधिपोतः सर्वसम्पतिहेतुः
प्रथितघनघटायां सर्पकान्तप्रकारः ॥ ३ ॥ . जयविजयमनीषामन्दिरं ब्रह्मशान्तिः
सुरगिरिसमधीरःपूजितोन्यक्षयक्षैः । हरतु सकलविघ्नं यो जने चिन्त्यमानः स भवतु सततं वः श्रेयसे शान्तिनाथः ॥४॥ इति शान्तिजिनस्तुतयः ॥३॥
॥ अहम् ॥ श्रेयःश्रियां मङ्गलकेलिसद्म श्रीयुक्तचिन्तामणिपार्श्वनाथ । दुर्वारसंसारभयाच्च रक्ष मोक्षस्य मार्गे वरसार्थवाहः॥१॥ जिनेश्वराणां निकरे क्षमायां नरेन्द्रदेवेन्द्रनतांहिपद्म । कुरुष्व निर्वाणसुखं क्षमाभृत् सत्केवलज्ञानरमां दधान॥२॥ कैवल्यवामाहृदयैकहार क्षमासरवद्रजनीशतुल्यः। सर्वज्ञ सर्वातिशयप्रधान तनोतु ते वाग्जिनराज सौख्यम् ॥ श्रीपार्श्वनाथक्रमणाम्बुजातसारङ्गतुल्यः कलधौतकान्तिः। श्रीयक्षराजोगरुडाभिधानः चिरञ्जय ज्ञानकलानिधान॥४॥
इति पार्थजिनस्तुतयः ॥४॥