________________
श्रीसाधुराजीयजिनस्तुतिः स इचणः, निष्फलविषयपराक्रम इत्यर्थः, तस्यामन्त्रणा ॥ इति तार्तीयीकवृत्तार्थः ॥ ३ ॥
कोठीभडामरनेश पापडताब्जभंजने । सालेवडांचिते भक्त्या तिष्ठंस्ते न सुखावडी ॥४॥ [कोठी इभ ! डामरन ! ईश! पापलक्षाब्जभञ्जने । साले वलाञ्चिते भक्त्या तिष्ठस्ते न सुखावली ॥४॥]
कोठीभ० व्याख्या। हे ईश! खामिन् । तथा हे डामरन! डामराण्यशिवानि हन्ति विनाशयतीति ब्रह्मादित्वात् टकि डामरघ्नस्तस्यामन्त्रणा। तथा हे इभ!गज । केत्याह, पापडक्षाब्जभञ्जने । अंहःसंहतिकमलमर्दने । सुखावलिमिच्छति सुखाबलीयति सुखावलीयतीति क्विपि “ अतः” ॥४।३ । ८२॥ इत्यलुकि “य्वोःप्वय्-" ॥४।४।१२१ ॥ इति य्लुकि च सुखावलीः सुखश्रेणिमिच्छुः पुमान् ते तव साले समवसरणप्राकारे बलाश्चिते त्रिभुवनवाणसामर्थ्यान्विते भक्त्या तिष्ठन्नव