________________
स्वोपज्ञ- टीकासहिता |
सिद्धम् । ननु कथं "मोनोम्वोच” || २|१|६७ ॥ इति मस्य नत्वं न स्यात्, उच्यते, मस्य नत्वे प्राग्विधौ कर्त्तव्ये णिज्लुकः स्थानित्वात् मकारस्य पदत्वस्यैवाभिषेधेन नत्वप्राप्तेरेवाभावात् । त्वं पुनः कथं० साकुली । सायां लक्ष्म्यां न कुत्सितं लीयते इति क्विपि साकुलीः । या, न कौ पृथिव्यां लीयन्ते इति अकुल्यो देवाः तैः सह परिवृतः समवसरणादौ वर्त्तते यः स साकुलीः। त्वं पुनः कथं भूतः टोठाधाणी । टः पृथिव्यामिति वचनात् टस्य पृथिव्याः । पृथिवीस्थजीवानामित्यर्थः । ऊः रक्षणं । ठस्तु घटे शून्ये वृहद्धनाविति वाक्यातस्या यः ठो वृहनिरुद्धोषणादिरूपस्तत्र तस्मै वा आ समन्ततो धण शब्दे इति धातोर्धणति शब्दायते इत्येवंशीलः शीले णिनि टोठाधाणी, जगज्जन्तुजातरक्षणोद्घोषणोपदेशक इत्यर्थः ॥ तथा हे इचण ! इः कामस्तं चिन्वन्ति पुष्णन्तीति डे, इचा विषयास्ते "णः प्रकटे निष्फले चेति वचनात् ” णा निष्फला यस्मिन्